________________
सि.४.३३१-३४१] वासुपूज्यचरितम् ..
श्रीदेव्या जिनमर्चन्त्या हृद्यं पाइदं इदम् । स्वप्ने ऽपश्यन्निशान्ते सा नृत्यद्धंसामलोमिकम् ॥ ३३१॥
. त्रिभिर्विशेषकम् ॥ स्वप्नं प्रेक्ष्य प्रमोदेन यान्भेजे पुलकारान् । तैरेवाङ्गीकृताङ्गीयं प्रबुद्धाख्यत्मियं मति ॥ ३३२॥ सो ऽपि व्याख्यत्प्रिये पुत्रः श्रेयाश्रीमान्महागुणः । स्वच्छाशयो जिनाधीशभक्तस्तव भविष्यति ॥ ३३३ ॥ प्रीताथ धन्यंमन्यासौ धन्याहयानमानसा । दूरविद्राणनिद्रा तं निशाशेषमवाहयत् ॥ ३३४ ॥ तस्मिन्नहि विनिद्रुत्य कर्म लाभान्तरायिकम् । क्रयविक्रयतो लाभं स लेभे द्विगुणं वणिक् ॥ ३३५ ॥ इति व्यवहतिक्रीडावर्धमानधनः क्रमात् । सुधर्मः सुखलेशानां प्रथमातिथितां गतः ॥ ३३६ ॥ धन्यायास्तनुकान्त्यैव गर्मो ऽथ बुबुधे शुभः । शारदाम्भोदलेखाया गर्भस्थ इव भानुमान् ॥ ३३७ ॥ सीमन्तोनयने वित्तचिन्तार्तः सो ऽन्यदा वणिक् । पादाङ्गष्ठेन गेहान्तर्विलक्षो व्यलिखन्महीम् ॥ ३३८ ॥ तदुल्लेखनखातायां स च क्ष्मायां व्यलोकयत् । कान्तकल्याणमाणिक्यमण्डलैराविलं बिलम् ॥ ३३९ ॥ विस्मयानन्दसंदर्भी मणिरुक्ममयं चणिक् । अगारं कारयामास वासवावासवत्ततः ॥ ३४० ॥ रूपलास्ये ऽप्सरंस्तुल्यो दास्ये विनयवामनः । तस्य सद्मनि दासीनां संघः संघटितस्ततः ॥ ३४१ ॥ तस्मिन्दातरि दातव्यमणिचारुत्वदर्शनात् ।