________________
३७८ . श्रविधमानसूरिविरचितं [स.४.३१९-३३०]
परलोके तु स स्वर्गसंपदं हंसभूपतिः ॥ ३१९ ॥ मृषावादविषाटोपक्लेशलोपसुधारसे। सत्यवादे रता नित्यं भवन्तस्तद्वन्तु भोः ॥ ३२० ॥
इति मृषावादाविचारे हंसनृपकथा ॥ . . अस्तेयममृषावादपादपच्छायवत्पुनः । क्लेशनाशाय सेवध्वमध्वगा भववर्त्मनः ॥ ३२१ ॥ आहितं स्थापितं नष्टं विस्मृतं पतितं स्थितम् । नाददीतास्वकीयं स्वमित्यस्तेयमणुव्रतम् ॥ ३२२ ॥ अस्तेयव्रतदुग्धाब्धिमध्यस्नानकृतां सताम् । न स्याद्भवदवज्वालाकलापस्तापहेतवे ॥ ३२३ ॥ अदत्तादानविरतिव्रतनिश्चयनिश्चलः । लक्ष्मीपुञ्ज इवाप्नोति सर्वः सर्वमचिन्तितम् ॥ ३२४ ॥
तथाह्यवितथारम्भधर्मिधर्मोमिनिर्मलम् । श्रीहस्तिपुरमस्ति श्रीनिरस्तान्यपुरं पुरम् ।। ३२५ ॥ तस्मिन्नुदारदारिद्रयमुद्रासर्वेश्वरो ऽभवत् । सुधर्म इति सद्धर्मरसैकमणिको वणिक् ॥ ३२६ ॥ कैश्चिद्वराटकैः किंचित्क्रीत्वा विक्रीय चान्वहम् । कांश्चिद्वराटकाल्लाँभे ऽर्जयन्कालं निनाय सः॥ ३२७ ।। सधर्मचारिणी तस्य धन्याख्या धर्मचारिणी। अभूत्कार्योच्चये चित्ताधिपचित्तानुवर्तिनी ॥ ३२८ ॥
पत्रे पत्रे स्फुरन्तीभिर्विचित्राभिर्विभूतिभिः । . चार्वङ्गीभिः कृतैर्गीतनृत्तवाद्यैः प्रसन्नया ॥ ३२९ ॥
रत्नाब्जमध्यवर्तिन्या दृग्भाग्यावधिरूपया । : . अगण्यपुण्यसंमाप्यसर्वशृङ्गारसारया ॥ ३३० ॥