________________
सि.४,३०८-३१८] वासुपूज्यचरितम्
खजीविताय कः पापं वदत्यनृतमित्यथ । अहं स हंस इत्युक्त्वा धृतास्त्रो ऽसौ पुरः स्थितः ॥ ३०८ ॥ सस्मार च नमस्कारान्राजा धर्मे धियं दधत् । दुन्दुभिः खे च दध्वान पुष्पवृष्टिः पपात च ॥ ३०९ ॥ सत्यवादिञ्जय जयेत्यानन्दविशदं वदन् । सम्यग्हक्तद्वनाध्यक्षः तस्य यक्षः पुरो ऽभवत् ॥ ३१० ॥ पीतस्त्वत्सत्यवादेन त्रासितः त्वदरिव्रजः। एतद्वनपतिर्यक्षस्त्र्यक्षाख्यस्त्वां वदाम्यदः ॥ ३११ ॥ तीर्थे त्वदीप्सिते यात्रा यत्र स्यादद्य तदिनम् । तधामो जिनमानन्तुं मद्विमानमलंकुरु ॥ ३१२ ॥ इत्यस्योक्त्या विमानं तदयमारूढवान्मुदा । स्वं चालोकत तत्कालं दिव्यमण्डनमण्डितम् ॥ ३१३ ॥ दिव्यगायनवर्गेण गीयमानयशोगुणः । गुह्यकार्धासनासीनः स जैनं धाम तद्ययौ ॥ ३१४ ॥ दिव्यदुकुसुमैर्दिव्यगन्धद्रव्यरसैरसौ।। दिव्यप्रेक्षणकैश्चात्र जिनयात्रा समाप्तवान् ॥ ३१५ ॥ स्वस्थाने च गतः शत्रु यक्षबद्धं विमुच्य सः । पुरी प्रमोदयामास नृपासनगतो नृपः ॥ ३१६ ॥ भोगैरभूतलपाप्यैः प्रीणनीयो ऽयमन्वहम् । अन्तरायनिकायश्च रक्ष्यो ऽस्मिन्पुण्यकारिणि ॥ ३१७ ॥ इत्युक्त्वा प्रीतिचतुरश्चतुरः सुरकिंकरान् । यक्षः श्रीहंसमापृच्छय यां ययौ द्युतिदीप्तदिक् ॥ ३१८ ।
॥ युग्मम् ॥ अहो सत्योक्तिमाहात्म्यमिहापि माप यन्मुदम् ।