SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ [स.४.२८४-२९५] वासुपूज्यचरितम् .. ३७५ लभ्यो युवाभ्यां न यथा तथाद्भुतगतितिः ॥ २८४ ॥ मार्गे तद्वचसा तस्मिंस्तौ मुधा पर्यधावताम् । असद्गुरूपदेशेन संयमस्येव वर्त्मनि ॥ २८५ ॥ तादृग्वागमृतासेकवर्धिष्णुसुकृतद्रुमः। यशःप्रसूनैः सुरभिस्तथैव पथि सो ऽचलत् ॥ २८६ ॥ प्रसूनपातसुरभीभूतभूतलमण्डलम् । शयनाय निशारम्भे सारं भेजे स भूरुहम् ॥ २८७ ॥ तृतीये ऽति पतिष्यामः संघे तस्मिन्धनाम्बुधौं । दारिद्यभारमुन्मुच्य तरिष्यामो धनोर्मिषु ॥ २८८ ॥ माक्पात एव हन्तव्या हन्त केचिजनाः पुनः । भीवश्यस्त्रस्यति यथा त्राता तुच्छपरिच्छदः ॥ २८९ ॥ इत्यदूरे लतागुल्मे बहूनां बलशालिनाम् । . वचः कर्णचरीकृत्य श्रुत्वा सो ऽचिन्तयनृपः ।।:२९० ॥ . ॥ त्रिभिर्विशेषकम् ।। केचिन्मलिम्लुचाः काममिह विश्राममागताः। साधुसंघातघाताय दुर्जने दुर्गुणा इव ॥ २९१ ॥ दूरादेभिः स्फुटं लुण्ड्यः संघो धर्मरुचिः कचित् । . एकाकिना मया शक्यः केनोपायेन रक्षितुम् ॥ २९२ ॥ इति चिन्तामसौ कुर्वनिद्रया दुरितस्तदा । . . . दीपदीप्तदिशो ऽपश्यद्वीरान्कानप्युदायुधान् ।। २९३ ॥ को ऽप्यसौ तस्करपुमानित्युत्थाप्य क्रुधा स तैः । मूालोकान्महात्मायं कोऽपीत्युद्भाव्य ‘भाषितः ।। २९४॥ चौराः केचित्कचिदृष्टा वदन्तो वा श्रुतास्त्वया। दिष्टा हि हेरकेणेह-पथि संघजियांसवः ॥ २१५ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy