________________
[स.४.२६१-२७१] वासुपूज्यचरितम्
३७३ तयात्रामसमाप्यैनं न वले धवलेक्षणाः । वित्रैः प्रारब्धसत्कर्म त्यजतो ऽधमचेष्टितम् ॥ २६१ ॥ इत्युक्त्वा वाहयामास वाहवाहनमध्वनि । भूपतिः कम्पितक्रूरपातकादिचमूचयः ।। २६२ ॥ परिवारजनेनाथ नाथभक्तिवियोगिना । स्वस्वमानुषवीक्षार्तिभाजा राजा व्यमुच्यत ॥ २६१।। यथा यथा स तैर्मुक्तो मुदं भेजे तथा तथा । त्रुटन्ति यात्राभाग्यस्य भागिनो ऽमी क्रमादिति ॥२६४॥ अथ च्छत्रभृतैकेन युक्तो मुक्तो जनैर्नृपः। कामप्यवापदेकाकी मार्गभ्रष्टो महाटवीम् ॥ २६५ ।। चारुचीरवरेण्याश्वगुभाभरणवीक्षणात् । भूरिलोभेन मा मिल्लाः सानन्दाः खेदयन्तु माम् ॥२६६॥ उत्तरीयमिति च्छत्रधरस्य परिधाय सः । यात्रैकधीर्दिशो वीक्ष्य प्राचलत्तीर्थदिङ्मुखः ॥ २६७ ॥
॥ युग्मम् ॥ अयैकः पश्यतस्तस्य जातवातवरत्वरः । एत्यातुरो लतापुञ्जनिकुञ्जमविशन्मृगः ॥ २६८ ॥ किरातः कश्चिदायातस्तमनु स्फारयन्धनुः । दृक्पथातीतसारङ्गः क्ष्माभुजङ्गमुवाच तम् ॥ २६९ ॥ अत्र पत्रततिच्छन्ने न पश्यामि पदं वने । मद्भक्ष्यं स मृगः कागान्ममेश कृपया दिश ॥ २७० ॥ सत्ये ख्याते मृगवधो ऽन्यथा ख्याते मृषावचः । तबुद्धया विप्रतार्यो ऽयमिति ध्यात्वावदनृपः ॥२७१।। भो पृच्छसि स्वरूपं मे मार्गभ्रष्ट इवापतम् ।