________________
श्रीवर्धमानसूरिविरचितं [स.४.२४९–२६०]
वैभवं बिभरामास हंसः संश्रूयतां तथा ।। २४९ ॥ अश्रान्तधर्मरचनः ससत्यवचनव्रतः । मासगम्ये वनीरम्ये रत्नशृङ्गाभिधे गिरौ ।। २५० । पूर्वजैः स्थापिते चैत्ये चैत्रीयात्रोत्सवे नृपः । चचालाल्पपरीवारो नन्तुं श्रीऋषभं जिनम् ।। २५१ ।। ॥ युग्मम् ॥
३७२
अर्धवर्त्मनि तं यान्तं चरस्तारतरत्वरः । व्यग्रो व्यज्ञपयामास कश्चित्पश्चादुपागतः ॥ २५२ ॥ यात्रार्थं त्वयि निर्याते नरेश दशमे ऽहनि । सीमालो ऽर्जुनभूपालः त्वत्पुरीं शत्रुरापतत् ॥ २५३ ॥ निरस्य त्रस्यतः सर्वान्निहत्य विहितायुधान् । सभाण्डागार हस्त्यश्वं स राजगृहमग्रहीत् ॥ २५४ ॥ भयातुरं पुरं कृत्स्नमानन्द्याभयदानतः । स सिंहासनमासीनः सद्यः स्वाज्ञामदापयत् ।। २५५ ।। - अन्यालयानिलीनेन श्रीसुमन्त्रेण मन्त्रिणा | अतस्त्वयि नियुक्तो ऽहं युक्तं यत्तद्विधीयताम् ॥ २५६ ॥ अथाब्रुवन्भ्रुवः क्षेपात्तं नृपं निकटा भटाः ।
4
वलामहे महेष्वास त्वत्पुरः कः स्फुरेत्परः ॥ २५७ ॥ तदाप्यकम्पितं दन्तद्युतिपुष्पैरुरो ऽर्चयन् । अजातमुखमालिन्यस्तानभाषत भूपतिः ।। २५८ ॥ संपदो विपदो ऽपि स्युः पूर्वकर्मवशंवदाः । मूढा मुदं विषादं वा तत्संपत्तिषु तन्वते ॥ २५९ ॥ नेदानीं भाग्यलभ्याय युक्तं राज्याय धावनम् । भाग्यलभ्यं परित्यज्य जिनयात्रामहोद्यमम् ॥ २६० ॥