________________
स.४.२३८-२४८] वासुपूज्यचरितम्
३७१ व्याख्यान्ते ऽथ नृपो ऽपृच्छत्केवली च न्यवेदयत् । तयोरणयो(रकारणं दूरदारुणम् ॥ २३८ ॥ तच्चरित्रात्तसंवेगो भवोंद्वगेन वेगतः। ... प्रवत्राज स राजन्यः कृत्वा राजानमात्मजम् ॥ २३९ ।। विरराज स राजर्षिस्तपस्तपनतेजसा । ततो ऽगादिवमुद्दामसंमदामृतदीपिकाम् ॥ २४० ॥ विवर्धिष्णुविरोधोमिदुर्धरौ तौ तु सिन्धुरौ । आद्यं दुःखरसास्वादकरकं नरकं गतौ ॥ २४१ ॥ तदुवृत्तौ च तौ लब्धजन्मानौ पापयोनिषु । अनन्तभवसंतप्तात्मानौ संचरतो ऽभितः ॥ २४२ ॥ चन्द्रजीवस्तु स स्तुत्यं भुक्त्वा स्वर्गसुखं चिरम् । लब्ध्वा शुद्धमनुष्यत्वं स्वामी सिद्धिश्रियो ऽभवत् ॥२४३॥ अमुं दृष्टान्तमाकर्ण्य मुक्तिसंप्राप्तिकारणम् । अहिंसासेवकैर्भाव्यमिच्छद्भिः शिवमात्मनः ॥२४४ ॥ इति प्राणातिपातविचारे शूरचन्द्रयोः कथा ॥ - पयोवाह इवाहिंसावल्लिपल्लवनक्षमः।। मृषावादविरागस्तु सतां भवदवच्छिदे ॥ २४५ ॥ अणुव्रतं द्वितीयं तद्वाच्यं यत्कापि नानृतम् । भूकन्यागोधनन्यासकूटसाक्ष्ये विशेषतः ॥ २४६ ॥ जन्तूनामहितं यत्तन्न वाच्यं सत्यमप्यहो । सुंधीभिर्वाकप्रपञ्चेन बोधनीयोऽत्र पृच्छकः ॥२४७ ॥ असत्यमपि निश्चित्य वाच्यं धर्महितं वचः । न सत्यमपि तत्साम्यमेति पुण्यचयश्रिया ॥ २४८ ॥ ईदृक्सत्यगिरां वक्ता यथा राजपुरीपतिः ।