________________
३७०
श्रीवर्धमानसूरिविरचितं [स.४.२२६-२३७ निवेश्य तं सुतं राज्ये राजा तद्धातपीडया । सूरे समत्सरो मृत्वा द्वोपी कापि नगे ऽभवत् ॥२२६ ॥ कलङ्कपङ्किलः सो ऽपि सूरो जीवन्कुकर्मभिः । घरन्देशान्तराण्याप वनं तवीपिदीपितम् ॥ २२७ ॥ पलायमानस्तत्रायमहःसंहृतपौरुषः । जन्ने प्राग्वैरवैरस्यात्कोपिना द्वीपिनामुना ॥ २२८ ॥ स सूरजीवस्तत्रैव वने यातः किरातताम् । पापविर्धितारम्भस्तेनैव द्वीपिना हतः ॥ २२९ ॥ सो ऽपि द्वीपी हतः कोपाटोपान्धैस्तस्य बन्धुभिः। तावभूतामुभौ शैलवने तत्रैव पोत्रिणौ ॥ २३०॥ तत्र त्रिवत्सरौ व्यक्तमत्सरौ तौ परस्परम् । संग्रामव्यसनव्यग्राववधील्लुब्धकब्रजः ॥ २३१॥ ततो ज्यतो वने कापि मृगावभवतामुभौ। तथैव प्रथितद्वेषसमरौं शबरो ऽबंधीत् ।। २३२॥ गजपोतावथैकस्मिन्गजयूथे बभूवतुः । युध्यमानौ च तो यूथभ्रष्टौ भिल्लगणो ग्रहीत् ॥ १२३॥ तौ परम्परया चन्द्रनरेन्द्रालयमीयतुः। न्यषिध्येतां मुहुर्बद्धयुद्धावाधोरणैर्बलात् ॥ २३५ ॥ कदाचिदाययौ तत्र केवलालोकभासुरः । मुनिः मुदर्शनो नाम जिनदर्शनभास्करः ॥ १३५ ॥ मनोवृत्तीर्वहन्भक्तिगहनाः सह नागरैः। वनं ययौ मुनि नन्तुकामः कामयिता भुवः २३६ ।। मुनिं नत्वाथ तत्त्वार्थवदिनं मेदिनीपतिः । धर्मोपदेशपीयूषपूरं पातुमुपाविशत् ॥ २३७॥