________________
[स.४. २१४-२२५] वासुपूज्यचरितम्
सेनासु तासु चरटो झञ्झाम करये यथा । कवंचिज्जीवनोपायकणिकामप्यनाप्नुवन् ॥ २१४ ॥ न शौर्यवह्निलेशो ऽपि मय्यस्तीति दिशनिव ।। सनिःश्वासमुखन्यस्ततृणश्चन्द्राग्रतो ऽलुठत् ॥ २१५ ॥ प्रसन्नहृदयः स्फीतदयस्तदयमुद्यशाः। हृष्यद्रोमालिमालिङ्गत्कुम्भमुत्थाप्य भूपभूः ॥ २१६ ॥ तदादि स्फुरदादित्यमहसं बहुसंमदः। .. चन्द्रं नृपो ऽधिकं मेने पुत्रतो ऽपि स्वतो ऽपि च ॥२१७॥ चन्द्राग्रभरतप्तस्तु यौवराज्यश्रियापि सः । .. राज्याय सूरः क्रूरात्मा दधौ पितृवधे धियम् ॥ २१८ ॥ निशीथे निशितास्त्रौधो दूरं वञ्चितयामिकः । उन्मार्गः सौधमाविष्टः कालादिष्टः फणीव सः ॥२१९ ॥ ततः पराङ्मुखं मुप्तं तीव्रणास्त्रेण भूपतिम् । स जघान घनं लोभः शोभते मूलमंहसाम् ॥ २२० ॥ . ततस्त्रसन्नसौ देव्या दृष्टः संमुखसुप्तया । घात्येष याति घात्येष यातीति पूत्कृतो रवः ॥२२१ ॥ धावत्सु द्वारपालेषु भूपालेनेत्यभाषि च । कस्यायं घातक इति ज्ञातव्यो मैष हन्यताम् ॥ २२२ ॥ तनुजं मनुजस्वामी तं विज्ञाय विकारिणम् । यूथाद्विनष्टं दासेरमिव देशानिरासयत् ॥ २२३ । त्वरवत्तुरगारूद्वैः स क्रमेलकमेलकैः । प्रधानपुम्भि चन्द्रः सुतं चन्द्रमथाह्वयत् ॥ २२४ ॥ जयसेनमथापृच्छय समायातस्तथास्थितम् । पितरं प्रेक्ष्य चन्द्रोऽभूदास्पदं ईषदुःखयोः ॥ २२५ ॥