________________
३६८
श्रीवर्षमानसूरिविरचितं [स.४.२०२-२१०] तद्वीरवारकोटीर चैरिशल्यं मम स्खलत् ।। . . . सूर्णमाकर्ष हृदयादुदयादपि रोपितम् ॥२०२॥ अन्यायमदिराकुम्भः कुम्भ इत्युपशुम्भनः । मन्न्यायक्षकरटी चरटीभूय चल्ाति ॥ २०.३ ॥ स्त्रीश्च गाश्च हरत्येष क्रूरो हन्ति यतीनपि । चमूरुखो यमस्यापि दुर्गमें दुर्गमञ्चति ॥ २०४॥ तत्तदुर्ग महादुर्गवल्गनो क्ल्[विक्रमः। . गुप्तं प्रविश्य तं सुप्तं मत्प्रमोदाय दारय । २०५।। इत्यात्तवाचि भूपे गां चन्द्रो ऽमुश्चत्सुधामयीम् । प्रारब्धतीयकृद्धर्ममहासागरमागराम् ॥ २०६॥ हन्तुं जन्तूनयुद्धेषु प्रत्याख्यानं प्रभो मम । युद्धेष्वपि परित्रस्तानस्तानन्दानिरायुधान् ।। २०७ ।। इत्यस्य निश्चयं शौर्यमयं धर्ममयं च सः। नृपो मत्वा ममश्चक्रे मदसंमदयोः पदम् ॥ २०८ ॥ अध्यक्षमङ्गरक्षाणामग्रण्यं मन्त्रिणामपि ।। सर्वेश्वरं च तं चक्रे क्रमात्मीतः क्षमापतिः ॥ २०९ ॥ पापव्यापारपारीणो रीणातुलचमूकुलः । विवेश देशं संरम्भी स कुम्भचरटो ज्यदा ॥ २१० ॥ सारवीरचयश्चन्द्रस्वराय दधाव च। अमार्गत्वरितैः सैन्यैर्दुर्गमार्गान् रुरोध च ॥ २१ ॥ पलायमानमुनिदरौद्रचन्द्रचमूभयात् ... तं रुरोध पुरोदर्षसहर्षसुभटोत्करः ॥ २१२ ॥ पुरतः पार्वतः पथान्मिलद्भिः स बलैरभूत् ।। वनेभः सर्वदिग्धावदवानल इवाकुलः ॥२१३ ।।