________________
३१६ श्रीवर्षमानसूरिविरचितं [स.४.१७८-१८९]
निरागस्त्रसहिंसागपीडारक्षणलक्षणम् । प्रथमं तेष्वहिंसाख्यं श्राद्धानां स्यादणुव्रतम् । १७८ ॥ सुकृताम्भोजहंसीयमहिंसवातिनिर्मला । भवमोक्षजलक्षीरविवेकाय निषेव्यते ॥ १७९ ॥ भूवर्गभोगसौख्यश्रीसोपानश्रेणिशालिनी ।
अहिंसा नाम निःश्रेणिनिःश्रेयसगमावधिः ॥ १८० ॥ • हिंसा निरन्तरं दुःखमहिंसा तु परं सुखम् ।
जन्तोर्ददात्यहो सूरचन्द्रयोरिव तद्यथा ॥ १८१ ॥ ___ अस्ति रूपेण संपत्त्या सुकृतोपचयेन च । पुरन्दरपुरालब्धजयं जयपुरं पुरम् ॥ १८२ ॥ अभूद्भूपः श्रियां पात्रं तत्र शत्रुञ्जयाहयः । यद्यशक्षीरधिरिदुर्यशाशैवलाद्वभौ ॥ १८३ ॥ नन्दनौ सूरचन्द्राख्यौ तस्याभूतां मतौ सताम् । सूरचन्द्राविवोनिद्रानन्दं कर्तुमिदं जगत् ॥ १८४ ।। ज्येष्ठे श्रेष्ठगुणभ्रान्त्या बिभ्राणः स्नेहविभ्रमम् । स तस्मै सूनवे राजा युवराजपदं ददौ ॥१८५॥ चन्द्रस्य तु महीन्द्रेण न वृत्तिरपि निर्ममे । ततः स चिन्तयामास स्वावासशयनो निशि ॥ १८६ ॥ सूरोऽय विदधे राज्ञा युवराजः स्वयं मुदा । न पत्तिरप्यहं वृस्या पितुर्मोहः कियानहो । १८७ ॥ 'पराभूतस्य तद्राज्ञा स्थातु मे ऽत्र न युज्यते । कलभः किं वसेधूथे यूयेशेनापमानितः ॥१८८॥ एवं विचिन्त्य निस्तन्द्रश्चन्द्रः सान्द्रपसंभवः । अचलद्गलितस्नेहः स्वगेहात्रिश्यलक्षितः ॥ १८९।।