________________
રૂ
श्रीवर्धमानसूरिविरचितं [स.४.१५५ - १६२]
प्रत्युत द्विगुणे दुःखे पतितो सरटीत्ययम् ।। १५५ ।। भवनाटककौटिल्यादथोत्कण्ठकविग्रहः ।
群
अव्याकुलचलच्चेताः क्षितिनेता व्यचिन्तयत् ।। १५६ ॥ विदामप्यपरिच्छेद्या संसारस्य विचित्रता । जनो ऽयं चिन्तयत्युच्चैरन्यदन्यच्च जायते ॥ १५७ ॥ सुखाय च्छायामायाति ग्रीष्मतापातुरस्तरोः । नरस्तत्कोंटरस्थेन दश्यते हा महाहिना ॥ १५८ ॥ वहत्यहो नरः शस्त्रं रिपोर्दारणकारणम् ।
कदाचिदेष तेनैव देवात्तेनैव हन्यते ।। १५९ ।।
मनोरथानुरूपं यत्फलमाप्नोति कश्चन ।
महाविडम्बनाजालक्षेपविश्वासकं हि तत् ।। १६० ॥ एकान्तदुःखदे लोके विरज्य मयि मुक्तये ।
मा धावत्विति संसारो दत्ते सुखकणानपि ॥ १६१ ।। या संसारसुखाचाप्तिर्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्र नियुक्तकवलोपमा ॥ १६२ ॥ अयं जनो मनो लोलं कथं नु कथयत्यदः । भवभावेषु यद्वज्रलेपेनेव नियन्त्रितम् ॥ १६३॥ अलोकव्योमिन ये लोकव्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाचितं कृणामि भवभावतः ।। १६४ ॥ इति ध्यायन्ययौं धाम त्वरितं नृपविक्रमः । चन्द्रसेनं सुतं राज्ये न्यस्य तस्थौ व्रतोत्सुकः ॥ १६५ ॥ ज्ञानविज्ञाततद्भावः स्वभावकरुणाकरः ।
:
सहसः केवली काले तत्र तत्पुरमासदत् ।। १६६ ॥ तद्वार्तावादिनं दानैरानन्द्योद्यानपालकम् ।