________________
[स. ४. १४३ - १५४] वासुपूज्यचरितम्
३६१
जितोत्कटचमूकोटिर्विकटे संकटे ऽनयत् ॥ १४३ ॥ पादान्ते ढौकणीकृत्य कृतदोः संयमं यमम् । स्मृतिमात्रागतो यक्षस्तदा विक्रममैक्षत ।। १४४ ॥ हीनोद्यमं दीनमुखं विद्विषं वीक्ष्य विक्रमः । बन्धादुन्मोच्य देशायादिदेशाव्यकृपाशयः ।। १४५ ॥ मानयित्वा च नत्वा च यक्षमक्षीणसौहृदम् । अनुज्ञाय निवासाय स्वपुरायाचल नृपः ।। १४६ ॥ पुर्या मङ्गलशृङ्गारद्याया हृदये ऽविशत् । प्रतोलीदृक्पथेनाथ भूनाथः कीर्तिभूषणः ।। १४७ ॥ तस्मिन्राजनि राजन्तः पौराः सौराज्यसंपदा । महोत्सवैर्दिवो देवान्धरामानिन्यिरे ऽन्वहम् ॥ १४८ ॥
व्रजन्भूपो ऽन्यदा बाह्यावनीं वाह्यालिकेलये | किमप्योकः क्षणक्षीवास्तोकलोकमलोकत || १४९ ॥ वाहयित्वा हयान्भूपो बलमानस्तदैव सः । अमन्दाक्रन्दसंदर्भगर्भमैक्षत मन्दिरम् ।। १५० । विस्मयव्याकुलेनैको नरः पार्श्वचरस्ततः । पृष्टस्तत्कारणं राज्ञा विज्ञायेति व्यजिज्ञपत् ॥ १५१ ॥ स्वामितद्गृहेशस्य महेभ्यस्य गतेऽहनि ।
अपुत्रकस्य पुत्रोऽभूदन्धस्येव गुद्रमः ॥ १५२ ॥ इदानीमेव वाह्यालिविलासगमनक्षणे । तन्निमित्तभवो ऽदर्शि देवेनेह महोत्सवः ॥ १५३ ॥ अधुनैव पुनर्दैवयोगतः स मृतः शिशुः । तद्वियोगार्तिमार्गेण तत्पितापि तमन्वगात् ।। १५४ ॥ तत्कुटुम्बजनः सर्वः पुत्रजन्मात्सयोगतः ।