________________
३६२
श्रीवर्धमानसूरिविरचितं [स.४.१३१-१४२]
द्रुतं विज्ञातवृत्तान्तः कुमारोपान्तमापतत् ॥ १३१ ॥ मुदा कुमारमालिङ्गय पत्तनाय निनाय सः। बालार्करश्मिकाश्मीरनीरश्रीरम्यया भुवा ॥ १३२ ॥ प्रत्यध्वपौरगौरागीदृक्तामरसतोरणे। कुमारमुत्सवेनाथ नृपः प्रावीविशत्पुरे ॥ १३३ ॥ कालेन केनचिद्राज्यभारमारोप्य विक्रमे । जगाम नामशेषत्वमेष भूपालपुङ्गवः ॥ १३४ ।। कुर्वननित्यताध्यानसुधासिन्धर्मिमजनम् । पितृशोकाग्निजं तापममुश्चद्विक्रमो नृपः ॥ १३५ ॥ विवेकं पितृलोकाग्निविशेषविशदं ततः । हृदलंकरणं चक्रे निष्कवद्विक्रमो नृपः ॥ १३६ ॥ न्यायकल्पद्रुमारामच्छायामध्ये निवेश्य भूः । तेनाभूष्यत सर्वाङ्गमहगृहविभूषणैः ॥ १३७ ॥ सप्तव्यसननिर्मुक्तममुक्तसुकृतोद्यमम् । अभूद्भूपे ऽत्र भूपीठं राजन्ते राजवत्प्रजाः॥ १३८॥
आगात्तद्देशभङ्गाय कलिङ्गाधिपतिर्यमः । कदाप्याकस्मिकापातः संनिपात इवोत्कटः ॥ १३९ ॥ दूरं देवस्य कस्यापि प्रभावादद्भुतौजसा । हरिः स हरिणेनेवाचक्रमे तेन विक्रमः ॥ १४०॥ शूरमण्डलतेजांसि दूरयन्सैन्यरेणुभिः । विक्रमो ऽथ धरित्रीन्दुरभ्यमित्रीणतां गतः ॥ १४१ ।। यमविक्रमयोर्जाग्रदुग्रविक्रमकर्मणोः । तयोः प्रवते वीरसिंहसंहरणो रणः ॥ १४२ ॥ जातदेवानुभावौनःसंक्रमो विक्रमं यमः ।