________________
[स.४.११९-१३०] वासुपूज्यचरितम्
३६१
मयाकृष्टः क्रियापापाद्वापापे यक्ष मा पत ॥ ११९ ॥ जगतां सृष्टिसंहारोद्धाराः सन्ति न सन्ति वा । । इति सम्यग्न जानासि स्वमाख्यासि च तत्क्षमम् ॥१२०॥ यदङ्गमहसा दृष्टिः सहसा तव लुप्यते । तैः सुरेन्द्रैः स्तुतान्ख्यासि स्वांशान्दर्शनदेवताः ॥१२॥ स्वयं भवाब्धौ मत्स्यस्त्वं चापलेनोपलक्ष्यसे । नमस्कारात्तदुत्तारं कुतो दिशसि मे ततः ॥ १२२ ॥ वचसा निष्फलेनैव तत्पापं मा वृथा कृथाः। भवेन्मम नमस्कारो भवे ऽस्मिन्न जिनं विना ॥ १२३ ॥ इति वादिनि यक्षेन्दुर्मेदिनीनाथनन्दने । गिरं जागरयामास विवेकविमलामिमाम् ॥ १२४ ॥ ददृशे त्वादृशः को ऽपि पुमाननुपमाकृतिः । धीरो धर्मी च वाग्मी च राजपुत्र न कुत्रचित् ॥ १२५ ॥ जितस्त्वयाहं वचनैस्तेनास्मि तव किंकरः। . शुद्धधर्मोपदेशाच्च मम त्वमसि सद्गुरुः ॥ १२६ ॥ स्वचित्तकोणं वासाय निजदासाय यच्छ मे । त्वच्छिष्यो यदि जानामि तद्गतां त्वद्गुणावलीम् ॥ १२७॥ विभो विरहयिष्यामि निजं चेतो न च त्वया । कदापि यदि वेत्तीदं जिनसेवोत्सवं तव ॥ १२८ ॥ भर्तः स्मर्तव्य एवाहमुत्कटे संकटे कचित् । अयमेव हि भृत्यानां स्वामिन्यवसरः परः ॥ १२९ ।। इत्युदित्वैनमापृच्छयावगृह्य च स शुह्यकः । ययौ निमाश्रयं चित्रतचरित्रचमत्कृतः ॥ १३० ॥ . ततः प्रत्यूषशेषायां रजन्यां राजपुङ्गवः । ...