SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६० श्रीवर्धमानसूरिविरचितं [स.४.१०४-११९. नृणां प्रणाममात्रेण गमिष्यामि प्रसन्नताम् ॥ १०७ ॥ कुरु त्वमपि मे नाम प्रणामममलाशय । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु ॥ १०८॥ कुमारोऽथ जगौ यक्ष नमस्कारो हि पञ्चधा। प्रहासविनयप्रेममभुभावप्रभेदभाक् ॥ १०९ ॥ स प्रहासपणामः स्याञ्चित्तोत्सङ्गितमत्सरैः। यः क्रियेत परिज्ञातविक्रियेभ्योऽपि सक्रियैः ॥११०॥ तमामनन्ति विनयप्रणामं नयपण्डिताः । पित्रादिभ्यो विधीयेत पुत्रायैर्विनयेन यः ॥ १११ ॥ पाहुः प्रेमप्रणामं तं प्रणयिभ्यः क्रियेत यः। कामं स प्रेमकोपेभ्यो मित्रादिभ्यः प्रसत्तये ॥ ११२ ॥ यस्तु स्वामिनि संमानमानश्रीदानशालिनि । ऐहिकः क्रियते स्वामिनमस्कारमुशन्ति तम् ॥ ११३ ।। यः सद्गुरौ च देवे च वीतरागे विरच्यते । तं तु भावनमस्कारं निर्दिशन्ति विशारदाः ॥ ११४ ॥ विचारय त्वमेतेषु कं नमस्कारमर्हसि । इत्याकर्ण्य कुमारोक्तिमभ्यवत्त जनंजयः ॥ ११५ ॥ त्वं कुमार नमस्कारं कुरु भावमयं मयि । यद्देवोऽस्मि जगत्कारसंहारोद्धारकारणम् ॥ ११६ ॥ भवार्णवसमुत्तारतरीभूतविभूतयः । मदंशा एव भासन्ते सर्वदर्शनदेवताः ॥ ११७॥ . मन्नमस्कारमात्रेण तव संसारसागरः। विक्रम क्रमलङ्घयत्वमनुल्लङ्घन्यो गमिष्यति ॥ ११८ ॥ अथाब्रूत स्मितस्यूतवदनो नृपनन्दनः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy