________________
स.४. ९५-१०६] : वासुपूज्यचरितम्
तं क्षोणिपसुतं यक्षा साक्षेपमिदमब्रवीत् ।। ९५ ॥युग्मम् ॥ न रे नराधम कथं ददासि मम कासरान् । . . . . . आयुःकाण्डमकाण्डेऽपि समापयसि किं स्वकम् ॥१६॥ स्मितधौताधरोऽधत्त कुमारो भारतीमथ । भो यक्ष न क्षिपामि स्वं तनुमद्धातपातके ॥ ९७॥ . अप्यारब्धबहुत्राणाः प्राणाः कस्यापि न स्थिराः। तत्कृत्याकृत्यविस्कुर्यादकृत्यं तत्कृतेऽपि कः ॥९८ ॥ इत्याकर्ण्य क्रुधा यक्षो विक्रम क्रमसंग्रहात् । उत्पाध्यास्फालयद्वीचीमिवाभ्याचलेऽर्णवः ॥ ९९ ॥ . मूर्छामुच्छिद्य यक्षस्तं क्रुधान्धः पुनरभ्यधात् । रे रे ददासि नाद्यापि किं मद्देयमदेयवत् ॥१०॥ कृपां करोपि जीवेषु स्वजीवे न करोषि किम् । मध्यतां गतेऽनुष्मिन्धर्माविष्कारकारणे ॥१०१॥ धर्माधारः कुमारो ऽथ गिरं जग्राह साहसी । खैकजीवकृते जीवशतं को हन्ति धर्मवित् ॥ १०२॥ : फलं तवापि धिग्यक्ष जीवलक्षनिपातनैः । इहामगन्धिकं धाम परत्र नरकव्यथा ॥ १०३ ॥ त्वं धर्मादेव देवत्वं यातो ऽसि प्राग्भवं स्मर । पातके जातकेलिस्तत्किमसि ज्ञानवानपि ॥ १०४ ॥ पुण्यैकपरिणामेन जगदुल्लासहेतुना । तवापि युज्यते धर्तुमानन्दं वन्दनादिना ॥ १०५॥ इति तस्योक्तिभियुक्तिभिन्नाभिभिन्नमानसः । यक्षो ऽभ्यधादहो साधु त्वयाहं प्रतिबोधितः ।। १०६ ॥ ततो नाद्यापि माद्यामि पापारङ्गिनां वधैः ।