________________
३५७
[स.४.७१-८२] वासुपूज्यचरितम्
भवे भवे स पश्चत्वमवाप व्यापदां पदम् ॥ ७१ ॥ इत्यापदोऽतिगहनाः सहमानेन संसृतौ ।। तेन बढ्योऽवसर्पिण्य उत्सर्पिण्यश्च निन्यिरे ॥ ७२ ॥ सोऽकामनिर्जराक्षामकाथ तनुभूरभूत् । . गृहिणः सिंहदत्तस्य वसन्तपुरवासिनः ॥ ७३ ॥ तारुण्ये तापसीभूय तपस्तप्त्वा स दुस्तपम् । फलं त्वज्ञानकष्टस्य प्राप त्वत्पुत्रतामयम् ॥ ७४ ॥ ऋषिघातप्रवचनद्वेषजं पापमेष तत् । तीव्राभिः कष्टकोटीभिस्ताभिस्ताभिरशोषयत् ॥ ७५॥ तेनाशोषितशेषेण दुरितेन तवात्मजः । अन्यं बभूव भूपाल रोगजालस्य भाजनम् ॥ ७६ ॥ ___ इत्युक्तिं दुःश्रवां श्रुत्वा चकम्पे चकितो नृपः। स विक्रमकुमारस्तु जातजातिस्मृतिर्जगौ ॥७७ ॥ विवेकदीपममाप्य प्रभो मोहतमोहतः । हहा कष्टमहासिन्धौ मार्गभ्रष्टः पुरापतम् ॥ ७८॥ इतश्वेतश्च चण्डाभिस्ताड्यमानस्तदूमिभिः । दैवात्तत्तीरमेत्यास्मिन्मनो रुपङ्कसंकटे ॥ ७९ ॥ जगद्गुरो करालम्बं तद्यच्छानवलम्बितम् । आकर्ष मामितः स्वामिनिरीह करुणां कुरु ॥ ८ ॥ सम्यक्त्कैकगुणपोतद्वादशव्रतभूषणम् । श्राद्धधर्ममथो हस्तमिव व्यस्तारयद्विभुः ॥ ८१ ॥ रोमहर्षाङ्कराकीर्णो हर्षाश्रुकणमिश्रदृक् । जग्राह श्रावकं धर्म विक्रमोऽथ यथाविधिम् ॥ ८२ ॥ भूपो ऽभूद्भद्रको नत्वा तौ मुनि पुरमीयतुः।