________________
३५६ श्रीवर्धमानमरिविरचितं [स.४.५९-७०]
भस्मीकृत्य द्रुतं पाप पयोद इव शान्तताम् ॥ ५९॥ भूपोऽथ पापभारेण समुत्पतितुमक्षमः । अधोगतीनामवधि सप्तमी दुर्गतिं गतः ॥ ६० ॥ सोऽप्यालोच्य प्रतिक्रम्य तदतिक्रम्य पातकम् । मुनिस्तीव्रतपस्तत्वा दिवमायुःक्षयादगात् ॥ ६१ ॥ स भूरमणजीवस्तु स्वयंभूरमणार्णवे । अप्रतिष्ठाननरकादुद्वत्तस्तिमितां गतः ॥ ६२ ॥ स तिमिः सप्तमीमेव जगाम जगतीं ततः। ततो ऽप्युद्वत्य मत्स्यो ऽभूद्गतः षष्टी च दुर्गतिम् ॥६३ ॥ चण्डालस्त्रीभवं प्राप्य पुनस्तत्रैव यातवान् । ततः कुम्भीनसो भूत्वा स भूमी पञ्चमीं गतः ॥ ६४ ।। पुनर्जगाम तामेव भुवं मीनभवान्तरः । मृगनाथः स भूत्वाथ तुरीयं निरयं गतः ॥ ६५ ॥ पुनस्तत्रैव पाठीनशरीरान्तरितो ऽगमत् । श्येनीभूय तृतीयं स इयाय निरयं ततः ॥ ६६ ॥ गृध्रदेहं गृहीत्वाथ गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः ॥६॥ सोऽगमद्भोगभृद्भय तत्र भूयोऽपि दुर्गतौ ।। तिमीभूयागमदसौ प्रथमां पृथिवीमथ ॥ ६८॥ अजायत स जीवोऽय पक्ष्यको विकलेन्द्रियः। हीनेन्द्रियचयस्तिर्यग्नीचजातिर्नरः सुरः॥ ६९। नारकश्चेति शतशः सोऽभूद्भवचरश्चिरम् । नानायोनीभवां भूरिपगभूतिं समाश्रयत् ॥ ७० ॥ आकुलः कष्टकोटीभिर्बन्धव्यथवधादिभिः ।