________________
सि.२. ४७-५८] वासुपूज्यचरितम्
ययौ सुयशसं साधुं कायोत्सर्गे ददर्श च ॥४७॥ स धर्मज्ञानयोरी धर्मज्ञानसमाश्रये । साधोरुरसि निःशङ्करः कङ्कपत्रं निखातवान् ॥ ४० ॥ मिथ्यादुःकृतवाक्साधुः स्वव्यलीकविशङ्कया। पपात घातव्यग्रोऽथ धर्माधारतरुधराम् ॥ ४९ ॥ जनं घिगिति जरूपन्तं निघ्नन्भूपोऽथ मन्त्रिभिः । पापश्रीकौतुकशुकः कृतः क्षिरवाशु पञ्जरे ॥ ५० ॥ न्यस्य तस्य सुतं राज्ये पुण्डरीकं स भूपतिः । सचिवैः पञ्जरायुक्तममोचि निरयोचितः॥५१॥ सुयशा मुनिराजस्तु. स्मरम्पञ्चनमस्कृतीः । षड्जीवरान्क्षमयन्सुरोऽभूल्लवसप्तमः ॥ ५२ ॥ स तु राजा वहन्वैर साधुवर्गे निरर्गलम् । न जनैनिन्धमानोऽपि तत्पुरोधानमत्यजत् ॥ ५३ ॥ ध्यानाधीनो यशोधौतव्योमा सोमाभिधो मुनिः। तेनो- दण्डपातेनापति स्वात्मेव दुर्गतौ ॥ ५४॥ क्ष्माजन्तून्क्षमयित्वाङ्गं संमार्ण्य प्रतिमास्थितः। मुनिस्तथैव घातेनापाति पातकिनाना ॥ ५५ ॥ इत्येष पौनःपुन्येन कुर्वन्पुण्येन साधुना । अवधिज्ञानविज्ञाततद्भावेनेति भतिः ॥ ५६ ॥ निघ्नन्साधूशमागाधान्रे रे दुष्ट स्वतुष्टये । न चेगीतोऽस्यघात्तरिक मादृग्भ्योऽपि बिभेषि न ॥१७॥ शमिनः मुयशोमुख्या हन्त त्वामसहन्त रे । नाहं. सहिष्ये हन्म्येष स्वाभीष्टं स्मर दैवतम् ॥ ५८ ॥ इत्युक्त्वा तडितेव ढुं तं तेजोलेश्यया मुनिः ।