________________
श्रीवर्धमानसूरिविरचितं [स.४.३५-४६]
दुःकर्मतिमिरत्रासवासरः समवासरत् ॥ ३५ ॥ ततः केवलिनं नन्तुं भूभर्ता भूरिभक्तिभाक् । चचालानन्दसंदर्भोज्जागरैर्नागरैर्वृतः ॥ ३६ ॥ तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभैलोमा इव रुजो हा वर्धन्ते ममौषधैः ॥ ३७॥ मुद्रामण्डलमन्वैस्तैरौषधैरुपयाचितैः । भग्नं मयाधिषदर्दन्तिदन्तरिवाद्रिषु ॥ ३८ ॥ तन्मे दादमी रोगसर्पाः सर्पन्ति यदलात् । तत्तमः शमयाम्यद्य ज्ञानभानुं भजे मुनिम् ॥ ३९ ॥ अथ व्यजिज्ञपद्भुपमसावुद्यमसाहसी । शमराशिं नमस्कतुं समं नयत मामिति ॥ ४० ॥ मुक्तालिखचितश्मश्रु मुखमश्रुकणैः सृजन् । नृपो ऽथ नृविमानेन समं तमनयत्सुखम् ॥ ४१ ॥ स्वर्णाब्जविष्टरक्रोडनिविष्टं कलभाषिणम् । नृपः समं कुमारेण मुनिहंसं ननाम तम् ॥ ४२ ॥ ततो मुनिर्मनुष्याणां हरन्पापमिषं विषम् । वाचा सुधाद्रवाचारधारिण्या धर्ममादिशत् ॥ ४३ ॥ पप्रच्छ देशनान्तेऽथ विक्रमोक्त्या मुनि नृपः । किं कुमारोऽयमारोग्यमारोहति न सर्वथा ॥ ४४ ॥ व्यक्तदृश्यस्फुरद्धर्म इवास्ये दशनांशुभिः । ऊचेऽथ केवली ज्ञानकवलीकृतसंशयः ॥ ४५ ॥ पुरेऽपरविदेहो:रत्ने रत्नस्थलाभिधे । पद्माख्य छद्मनां सब कुराजन्यः पुराजनि ॥ ४६ ॥ स मृगव्यरसव्ययो भूतलं वन्यमन्यदा ।