________________
[स.३. ११०१-१११०] . वासुपूज्यचरितम् ३४९
maramminnmar गन्धद्रव्यैः सुरन्यस्तैः प्रचुरीभूतसौरभः। मुनरोदश्चितः मापवसुपूज्येन कारितः ॥ ११०१ ।। वायेषु वाद्यमानेषू गायति प्रमदाजने । द्वारा प्राच्येन समवसरणे प्राविशद्वलिः ॥ ११०२॥
त्रिभिर्विशेषकम् ।। दत्तप्रदक्षिणो भर्तुरुत्सितः स पुरो नृभिः । श्रेयाश्रीनर्तनारम्भे पुष्पहस्तकवद्भभौ ॥ ११०३ ॥ भपतन्तं महीपीठे बलेर दिवौकसः । जगृहुः सुगुरोर्वाक्यमिव भक्तिपरा नराः ॥ ११०४॥ पतितस्य क्षितौ तस्यास्याध जगृहे नृपः। तीर्थशेषामिवाल्पाल्पं शेषं तु जगृहुर्जनाः ॥ ११०५ ॥ बलेस्तस्य प्रभावेण पूर्वोत्पन्ना गदाः क्षणात् । विलीयन्ते न जायन्ते षण्मासान्तनवाः पुनः॥११०६॥ मातुलिङ्गशराधारौ धारयन्दक्षिणी भुजौ । चामौ नकुलकोदण्डदण्डाभ्यामभिमण्डयन ॥ ११०७॥ अवलक्षरुचिर्यक्षो वलक्षखगवाहनः । कुमारनामतीर्थेऽस्मिन्वासुपूज्यविभोरभूत् ॥ ११०८॥
युग्मम् ।। उत्पेदे च घनश्यामा चण्डानामा तुरङ्गगा। दक्षिणौ दधती शक्तिवरदत्रवरौ करौ ॥ ११०९ ॥ भुजौ वामौ गदापुष्पभूषितौ परिविभ्रती । सदा संनिहिता भर्तुर्जाता शासनदेवता ॥ १११०॥
युग्मम् ।।