________________
३४८ श्रीवर्धमानमूर्सिविरचित [स.३. १०८९-११०००
श्रावकाः सुयशोमुख्याः श्राविकाच जयादिकाः ॥१०८९।। इत्थं चतुर्विध सङ्घमघसंघातघातकम् । वासुपूज्यो जगत्पूज्यं स्थापयामास सुस्थितम् ॥१०९०॥ यदा ज्ञानं विभोर्भावि ग्रहीष्येऽहं तदा व्रतम् । इति ध्यानवती पद्मावती नाथेन दीक्षिता ॥१०९१ ॥ तत्त्वप्रश्नत्रयेणाथ नाथस्तेषां महात्मनाम् । सूक्ष्मादीनां तु षट्पष्टेर्गणभृन्नामकर्मणाम् ॥ १०९२ ॥ उत्पत्तिर्विगमो ध्रौव्यं क्रमादिति पदत्रयम् । त्रिकालज्ञस्तदाचख्यौ श्रुतद्रो/जमादिमम् ॥ १०९३ ॥
॥ युग्मम् ॥ त्रिपदानुसृतेरेकादशाङ्गानि वितेनिरे । ते चतुर्दशपूर्वस्थमङ्गं द्वादशमप्यथ ॥ १०९४ ॥ सुगन्धिचूर्णसंपूर्ण तूर्ण शक्रः सुरैदृतः । प्रस्तावज्ञो मणिस्थालं गृहीत्वास्थात्पुरः प्रभोः ॥१०९५। उत्थायाथ प्रभुचूर्णक्षेपं कुर्वन्सुमेधसाम् । तेषां सूत्रेण चार्थेन ततस्तदुभयेन च ॥ १०९६ ॥ क्रमाद्रव्यैरथ गुणैः पर्यायैश्च नयैरपि । अनुज्ञामनुयोगस्य गणस्य च ददौ तदा ॥१०९७॥युग्मम् ।। अथ दुन्दुभिनि?पैमङ्गलोद्गारगीतिभिः । सुरासुरनरा हर्षात्तेषु वासांश्च चिक्षिपुः ॥ १०९८ ॥ पुनः सिंहासनासीनः पुरःस्थानां जगद्गुरुः । मुनीन्द्राणामदात्तत्त्वशिक्षां गणधरोचिताम् ॥ १०९९ ॥ तस्मिन्नवसरे स्थूलैरुज्ज्वलैः शालितण्डुलैः । अखण्डैराढकोन्माननिर्मितः कृत्यवदिभिः ॥ ११०० ।।