SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ [स.३. १०७८-१०८८] वासुपूज्यचरितम् ३४७ अयं कुजन्मनां पारं कदाचिदपि न ब्रजेत् ॥ १०७८ ॥ इत्यन्तरङ्गदृष्टान्तमवबुध्य सुबुद्धयः । अहितत्यागतः सन्तः सन्तु स्वस्य हिते रताः ॥१०७९॥ ॥ इति चतुर्विधजीवविचारेऽन्तरङ्गकथा ॥ इत्याकर्ण्य सुधापूर्णकर्णा वर्ण्य विभोर्वचः। बभूवुरुद्यता बोधमहिताः स्वहिते जनाः ॥ १०८० ॥ बहवो लघुकर्माणः सूक्ष्मायाः मूक्ष्मदर्शिनः । विभुं विज्ञापयांचक्रुः कोशीकृतकरा नराः ॥ १०८१ ॥ प्रभो भ्रान्तैर्महारण्ये सार्थनाथ इवोत्तमः । पतद्भिरवटे हस्तावलम्ब इव दाढर्यवान् ॥ १०८२ ॥ क्षुधादग्धैरभीष्टानसत्रागारमिवाप्रतः । रोगग्रस्तैमहावैद्य इवादरणमुन्दरः ॥ १०८३ ।। मरौ ग्रीष्मेऽनि संचारात्खिनैः सर इवाद्भुतम् । प्रवासस्थैः प्रियालोक इवास्तोकमतर्कितः ॥१०८४ ।। शत्रुशस्त्राहतित्रस्तैः शरण्यः शक्तिमानिव । . नदीपुररयाकृष्टैः सत्तारक इवोद्यतः ॥१०८५ ॥ मन्त्रसेवादितैस्तुष्टदेवीवर इवोत्तरः । अस्माभिर्भवदुःखातैलब्धस्त्वं श्रेयसां निधिः ॥१०८६॥ पञ्चभिः कुलकम् ॥ तदस्मान्करुणाम्भोधे रक्ष रक्षाभितो भवात् । प्रसीद देहि दीक्षां नः शिक्षय श्रमणक्रियाम् ॥१०८७॥ एवमभ्यर्थितस्तेभ्यः श्रीसर्वज्ञो यथाविधि । सूक्ष्मादिभ्यो ददौ दीक्षा व्रतशिक्षां च तत्क्षणात् ॥१०८८॥ सूक्ष्माद्याः साधवः साध्व्यो धरणीप्रमुखा बभुः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy