SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानसूरिविरचितं [स३.१०६६-१०७७] कुतीर्थानि रत्नानि तत्राज्ञानतपांसि च ।। १०६६ ।। चारित्रं विटपी तत्र सद्गुरुः पुरुषो महान् । कृपा तत्प्रेयसी विश्वत्रयजन्तुहिता स्मृता ।। १०६७ ।। सर्वज्ञशासनं यच्च स माणिक्यमहीधरः । ध्यानं कुद्दालकः कर्मखानीनां खनने क्षमः ।। १०६८ ।। सुतपोभ्यस्तु सत्पुण्या रत्नश्रेणिरदूषणा । सम्यक्त्वं तच्च रत्नाद्रिकोटौ रत्नं यदुत्तमम् ।। १०६९ ॥ पञ्चातिचारसंहारो माणिक्याद्रिस्तुतिच्छलात् । सुरासुराय लक्ष्मीर्या केवलज्ञानमेव तत् ।। १०७० ॥ यस्तत्सङ्गान्महानन्दः स मोक्षगमनोत्सवः । भव्यः कोऽपि भवेऽत्रैव कृतकृत्यो भवेदिति ॥ १०७१ ॥ आसन्न सिद्धिकस्तु स्यात्सस्पृहस्तपसां फले । भवेषु दिव्यद्रङ्गेषु भोगास्तन्मूल्यजं फलम् ।। १०७२ ।। सप्ताष्टवारं यामुष्य सुपुरेषु गतागतिः । पुण्योदयव्ययोत्थाना नरामरभवास्तु ते ।। १०७३ ।। दूरभव्यस्य यो दिव्यपुरीगमनमिच्छतः । पल्लीपातोऽल्पभोगर्द्धि भूतप्रेतादिजन्म तत् ।। १०७४ ।। भ्रमन्भूरीन्भवान्दूर भव्योऽपि सुखदुःखभाक् । गुरोर्गिरं पुनः प्राप्य भव्यीभूय शिवं श्रयेत् ।। १०७५ ।। ३४६ अभव्यस्तु गुरुद्वेषान्मर्त्यजन्माध्वदूरगः । विशत्यरण्ये दुर्जन्मचयसंचारनामाने ।। १०७६ ।। दुःकर्मनामभिर्दुष्टजीवैस्तत्रातिघट्टितः । दुःखस्थानेषु कूपादिस्थानीयेषु पतत्यसौ ।। १०७७ ॥ कष्टात्कष्टान्तरे स्पष्टं पतनेषु मुहुर्मुहुः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy