________________
[स.३. १०५४-१०६५] वासुपूज्यचरितम् ३४५
स्वनामाईविचारेऽत्र स्थिरं व्यरचयन्मनः ॥१०५४ ॥ महत्वं माययापन्नः कोऽप्ययं मायिकः पुमान् । विप्रतारयति स्वैरं रत्नद्वीपचरान्नरान् ॥ १०५५ ॥ विलोभ्य कोमलोक्त्यायमायातं जनमादरात् । नीत्वा कचन गृह्णाति शम्बलं खमपि क्षणात् ॥१०५६॥ पापाचारे विचारेऽस्मिनिश्चलं रचयन्मनः । रत्नद्वीपस्य पन्थानमप्यमुञ्चत दुर्मतिः ॥ १०५७ ॥ कूपावर्तशिलागतेपङ्ककण्टकसंकटे । स महागहनेऽरण्ये कचिनिःपुण्यकोऽपतत् ॥ १०५८ ॥ दुष्टजीवघटाघट्टकष्टितस्तेषु तेषु च । दुःस्थानेषु पतञ्जज्ञेऽरण्यान्निर्गन्तुमक्षमः ॥ १०५९ ॥ __ आकर्ण्य धीधनैरेतदन्तरङ्गनिदर्शनम् । ततः प्रथमवद्भाव्यं न पुनश्चरमो यथा ॥ १०६० ॥ निगोदवसन यत्तदनन्तजनपचनम् । तत्र कालपरीणामो नाम चित्रगतिनृपः ॥ १०६१ ॥ भव्यस्तद्भवसिद्धोऽसौ जीवः शुद्धमतिस्तु यः । आसन्नसिद्धिको योग्यमतिभव्योपमः स च ॥ १०६२ ॥ दूरभव्यस्त्वसौ मन्दमतिर्मन्दगतिर्भवे । अभव्यो दुर्मतिईयोऽनन्तसंसारदुःखभाक् ॥ १०६३ ॥ जीवाश्चतुर्विधाः कालपरिणामवशादमी। आजग्मुर्व्यवहाराख्यराशौ ते कथमप्यथ ॥ १०६४ ॥ कुग्रामाः कुभवास्तापशीतवातादिकष्टजम् । अकामनिर्जरापुण्यमल्पमल्पं स्वशम्बलम् ॥ १०६५ ॥ मानुष्यकभवो रत्नद्वीपस्तत्र कुपर्वताः ।