________________
३४४
श्रीवर्धमानसूरिविरचितं [स. ३.१०४२-१०५३]
स हा सहसंपन्नभोगयोगविरं स्थिरः ।। १०४२ ॥ क्षीणश्रीः माप्य रत्नानि श्रिये माणिक्यशैलतः । जगाम कामं दिव्यानि भूयो भूयः पुराणि सः ।। १०४३ ॥ रत्नद्वीपे स माणिक्यगिरिं गत्वा कदाचन । सप्ताष्टवार संचारखिन्नश्वेतस्यचिन्तयत् ।। १०४४ ॥ पुंसा दिव्येन मे तावदधुनापि हितैषिणा । अमूल्यरत्नमादिष्टं नित्यसौख्यस्य कारणम् ॥ १०४५ ॥ ततस्तलब्धये यत्नं कुर्वे चक्रे च तं तथा । प्राप्यामूल्यं च तद्रत्नं स शुद्धमतिवद्धभौ ।। १०४६ ।। यस्तु मन्दमतिर्नाम स दिव्यपुरुषोक्तिषु । विमर्शस्पर्शेन वितेने तरलं मनः ।। १०४७ ॥ प्रत्यक्षाणि परिक्षिप्य रत्नान्येतानि रुम्पदम् । लगेद्वाक्येऽस्य कः सत्यासत्यसंशयगोचरे ।। १०४८ ॥ इति निश्चित्य तैरेव ग्रावखण्डैरखण्डमुत् |
पुरं गन्तुमना दिव्यं कचित्पल्लीं पपात सः ।। १०४९ ॥ ततस्तदुचित प्राप्तस्वल्पमूल्योपभोगभुक् ।
निनाय स दिनान्यत्र संकरे सुखदुःखयोः ॥ १०५० ॥ भुक्तश्रीर्यत्र तत्रापि स भ्रमन्नभ्रवत्पुनः । रत्नद्वीपं ययौ दैवाद्भावखण्डान्यवाप च ।। १०५१ ॥ ततस्तदुचितावाप्तस्थान श्रीदुःखजीवनः । गतागतशतान्येवं हताशः प्रततान सः ॥ १०५२ ॥ सोऽपि कालेन निर्विण्णस्तन्वानो दिव्यपुंवचः । माणिक्यगिरिमाश्रित्य भेजे शुद्धमतेर्गतिम् ।। १०५३ ॥ यस्तु दुर्मतिराकर्ण्य स दिव्यपुरुषस्य गाम् ।