SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ [स.३.१०३१-१०४१] वासुपूज्यचरितम् अयमप्यस्ति रम्योऽद्रिस्तथान्येऽप्यद्रयोऽद्भुताः । यस्य स्याद्विचिकित्सेति स किं पापैर्न लिप्यते ॥ १०३१ ॥ धन्या अन्याद्रिभाजोऽपि यत्नाद्रत्नान्यवाप्नुयुः । इति वार्ताप हास्याय हा स्यादेतद्विरिस्पृशाम् ॥१०३२॥ अन्याचलचरैः पुंभिरेतगिरिचरा नराः । दर्शनेनापि लज्जेरन्स हेरन्संस्तवं कुतः ।। १०३३ ॥ धन्योऽहं कृतकृत्योऽहं लब्धजन्मफलोऽप्यहम् । येनासामान्यमाहात्म्यं रत्नमेतदवाप्यते ।। १०३४ ॥ विनिर्भाग्यं जमतं मां पुरा येन वासराः । अगम्यन्ततमां हन्त रत्नैस्तैरप्युपार्जितैः ।। २०३५ ॥ इति ध्यायन्हद दधौ स तद्रत्नं सुनिश्चलम् । अच्छिद्रमपि यत्प्रोतमनन्तैर मलैर्गुणैः ।। १०३६ ॥ सुरामुरायामृद्धिं स माप तद्रत्नधारणात् । अचिन्त्यमहिमानो हि मणिमन्त्रौषधीगुणाः ।। १०३७ ॥ स प्रतिक्षणतत्सङ्गसुखनिर्भरभावनः । • ३४३ महानन्दमपि प्राप किं न भाग्यभृतां भवेत् ।। १०३८ ।। यस्तु योग्यमतिः सोऽपि दिव्य पुंसो गिरां गुणैः । प्रीतः शुद्धमतिं मूलाच्चालोक्य प्राप्तनिश्चयः ।। १०३९ ॥ पूर्ववलुब्धकुद्दालः खानीर्ज्ञाताः खनञ्शनैः । कृतयत्नोऽपि रत्नौघं बहुमूल्यमवाप च ।। १०४० ॥ ॥ युग्मम् ॥ रत्नमूल्यसुखस्वादः परं किंचिदभूदसौ । तत्र लोकोत्तरं रत्नं लब्धुमारमादधौ ॥। १०४१ ॥ गत्वा किंचित्पुरं दिव्यं रत्नाप्तश्रीः स्थितः सुखम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy