________________
४२
श्रीवधमानमारावरीचंत सि.३.१०१९-१०३०]
पुमान्स दिव्यः कुद्दालं तीव्रत्वालंकृतं कृती ॥ १०१९ ॥ माणिक्याचलमासाद्य माद्यद्रोमाञ्चकञ्चकः। • अवापैष खनन्खानी रत्नानीह. त्विषां गृहम् ॥ १०२० ॥ कालेनाप्यतिकष्टेनाप्यहं रत्नममूल्यकम् । तद्रहीष्ये ऽधुना येन लभ्यते मुखमक्षयम् ॥ १०२१ ॥ इति ध्यात्वातिकष्टासु माणिक्याचलसीमासु । ददत्पदानि संपाप शिखरं तस्य स क्रमात् ॥ १०२२ ॥
॥ युग्मम् ॥ यन्माहात्म्येन तन्वन्ति सेवां देवाधिपा अपि । रत्नं तेनेह तत्किचिदुदश्चद्रोचिरैक्ष्यत ॥ १०२३ ॥ महतस्तस्य रत्नस्य दर्शनादेव शुद्धधीः । विश्वत्रयस्याप्युपरि स्फुरितं स्वममभ्यत ॥ १०२४ ॥ तच्चालोक्यातियत्नेन रत्नमुत्पुलकाकृतिः । धीरो निश्चयधीश्वेतस्येतच्चिन्तयति स्म सः॥१०२५ ।। स एव ज्ञानवान्पुण्यः कृपागारो गुरुः पुमान् । येनेग्रनपात्रं मे कथितः पृथिवीधरः ॥१०२६ ॥ अयमेव च रत्नाद्रिः सेव्यो रत्नार्थिभिनृभिः। स्युः सर्वेष्वपि शैलेषु रत्नानि कविवागियम् ॥ १०२७ ।। देवः स एव यः कश्चिदस्याटेरधिदैवतम् । देवत्वं कान्यदेवानां येषां न स्थानमीदृशम् ॥ १०२८ ॥ रुचिपचितविश्वेऽस्मिन्नपि माणिक्यभूभृति । तमासमलदृष्टीनामस्ति नास्तीति संशयः ॥ १०२९ ॥ दृष्दैनमपि रत्नाद्रिं गिरीनाकाङ्कतोऽपरान् । अन्धदृष्टेर्जनस्यास्य कान्तौ ध्वान्तेऽपि नो भिदा ॥१०३०॥