________________
मन्दमातस्तथा ।
[स.३. १००७-१०१८] वासुपूज्यचरितम्
तत्र चित्रगति म धरित्रीदयितः स्थितः ॥ १००७ ॥ पुरे ऽत्र कष्टं तिष्ठन्तः कापि सौख्याय गम्यताम् । इत्युक्तास्तेन चत्वारः पौरा निरगुरेकदा ॥ १००८ ॥ ते तु शुद्धमतिर्योग्यमतिर्मन्दमतिस्तथा । दुर्मतिश्चेति कुग्रामेष्वजीवनकर्मवृत्तितः ॥१००९ ॥ कामं वृत्त्यै भ्रमन्तस्ते शीतवातातपेष्वपि । रत्नद्वीपं ययुः कष्टार्जिताल्पद्रव्यशम्बलाः ॥१०१० ॥ कुशैलेषु दृषत्खण्डान्सत्रासानल्पतेजसः । . रत्नभ्रमेण गृह्णन्तो मूढा मुमुदिरेऽत्र ते ॥ १०११ ॥ तैरलोकि पुमान्कोऽपि दियाभरणभासुरः। तरुच्छायास्थितः सारपरिवारो महानिह ॥१०१२ ॥ प्रीणितस्वान्तया नुन्नः कान्तयाय प्रशान्तया । असत्योक्तिनिशाभानुस्तानुवाच पुमानयम् ॥१०१३ ।। किमेभिरश्मखण्डै? रोचितैः पामरोचितैः। न स्पृशन्ति करेणापि यानि पौराः परीक्षकाः ॥१०१४॥ इतोऽग्रतोऽस्ति माणिक्यगिरिगुरुगुणालयः । यत्प्रभासु न भासन्ते तमांसि च महांसि च ॥ १०१५ ॥ यदि तं याथ रत्नानि लभध्वे तानि तानि तत् । येषां महीयोमहसां महीयं मूल्यमल्पकम् ॥ १०१६ ॥ अथ शुद्धमतिर्दध्यौ साधु दिष्टमनेन में। व्यक्तं परोपकारार्थमेव जीवितमीदृशाम् ॥ १०१७ ॥ तदस्यादेशमाधाय दारिद्रयायं ददे जलम् । इति ध्यात्वा चचालासौ माणिक्याचलंदिङ्मुखः ॥१०१८॥ तस्मै रत्नार्थिने खानिखननार्थमथार्पयत् ।