________________
३४०
श्रीवर्धमानसूरिविरचितं [स. ३.९९५ - १००६]
न भजन्ते यथाश्वत्थतरोः कृम्याकुलं फलम् ।। ९९५ ।। मोक्षायाभ्युद्यतैर्भाव्यं भव्यैः शाश्वतशर्मणे ।
भवदुःखानि यन्नूनं न भवेयुः शुभात्मनाम् ।। ९९६ ।। शक्तिज्ञानहगानन्दा यत्रानन्ता ध्रुवं स्थिताः ।
कः संसारसुखभ्रान्त्या तत्र मोक्षे निरुद्यमः ॥ ९९७ ॥ यः संसारसुखाखादान्मोक्षसौख्ये निरादरः । व्यग्रः पङ्कादने दुर्धीः स सुधामवधीरयेत् ॥ ९९८ ॥ संसारे परमं दुःखं मोक्षे च परमं सुखम् । इति तत्त्वं परिज्ञाय भाव्यं मोक्षाय तत्परैः ।। ९९९ ।। तस्याद्यं कारणं धर्मस्तरोवजमिव ध्रुवम् । यतितव्यं ततस्तस्मिन्नप्रमत्तैर्मनीषिभिः ।। १००० ॥ अयं धर्मो द्विधा ज्ञेयः साधुश्राद्धाश्रयाद् बुधैः । अल्पानल्पविलम्बेन सिद्धये द्विविधोऽपि सः ।। १००१ ।। तत्र सावद्ययोगानां विरतिः सर्वतः सदा । निर्दोष एव साधूनां धर्मश्चारित्रलक्षणः || १००२ ॥ यदि सावद्ययोगानां देशतो विरतिर्भवेत् । तदेष गृहिणां धर्मः श्रमणोपास्तिसंस्पृशाम् || १००३ ।। द्विविधोऽपि विधेयोऽयं श्रद्धया शुद्धयाधिकम् । सा पुनः सुगुरोस्तत्त्वोपदेशैर्जायते श्रुतैः ॥ १००४ ॥ तेऽप्यास्तिकत्वपात्रेषु फलन्त्यन्यत्र न कचित् । नानाचित्तेष्वहो शुद्धमत्यादिष्विव तद्यथा ।। १००५ ॥ अनन्तजनमित्यस्ति पुरं महिमवत्तरम् ।
शश्वद्वसन्ति यत्पौरैरेव विश्वपुराण्यपि ।। १००६ ॥ महाकष्टमसाधूनां साधूनां संमदं ददत |