________________
[स.३. ९८३-९९४] वासुपूज्यचरितम् ३३९
नत्वा तीर्थपति स्तोतुमिति शक्रः प्रचक्रमे ॥ ९८३ ॥ श्रीवासुपूज्य नन्दन्तु त्वदंहिनखचन्द्रिकाः । दशाशविलसज्जन्तुकर्मसंतमसच्छिदः ॥ ९८४ ॥ नमः शमसुधाम्भोधिलहरीभ्य इव प्रभो । त्वद्विलोकितलीलाभ्यो भवानिभ्रंशहेतवे ॥ ९८५ ॥ अन्तःसंततसंदीप्तध्यानानलविभानिभाः। विभो तव विभान्त्यङ्गभासोदासितविद्रुमाः ॥९८६ ।। जयन्ति दन्तद्युतयो विश्वेश विशदास्तव । भवार्णवतरण्डस्य सितध्वजपटोपमाः ॥९८७ ॥ भाग्यं भुवि भवानेव विभाति भविनां विभो । यद्भवदर्शनं तेषां सर्वेन्द्रियमदप्रदम् ॥ ९८८ ।। स्तूयसे सुमनोभिस्त्वममनस्को ऽपि यत्प्रभो। केवलस्यैव पुण्यस्य तन्महत्त्वमहो तव ॥ ९८९ ॥ धर्मदेशनया वीतरागयिष्यञ्जनं जिन । प्रागेव कुरुषे वीतराग-दन्तयुताधरम् ॥ ९९० ॥ वर्धमानवरज्ञानज्ञेयः श्रेयःश्रियः पदम् । त्वत्प्रसादः सदा मे ऽस्तु वासुपूज्य जिनाधिप ॥ ९९१ । इतीन्द्रस्तुतिभिस्तुष्टे निविष्टे नृसुरासुरे । निर्मलां निर्ममे धर्मदेशनां निर्ममेश्वरः ॥ ९९२ ॥ योजनप्रसराः सर्वभाषापरिणतिप्रियाः । पञ्चीत्रंशद्गुणा रेजुर्गिरो विश्वगुरोरिति ॥ ९९३ ॥ भो भव्या भूरिभाग्येन भविनां नृभवो भवेत् । तदमुं प्राप्य संसारं त्यक्त्वा श्रयत निर्वृतिम् ॥ ९९४ ॥ यतः संसारमस्तोकशोकदुःखभृतं बुधाः ।