SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसूरिविरचितं [स.३.९७२-९८२] स्थानं विमुच्य साधूनां साध्वीनां च तदन्तरे । विहिताञ्जलयस्तस्थुरूर्ध्वा वैमानिकस्त्रियः ॥ ९७२ ॥ ॥ युग्मम् ॥ याम्यद्वारा प्रविश्याथ विधिना नैर्ऋते स्थिताः । क्रमेण भवनाधीशज्योतिष्कव्यन्तरस्त्रियः ॥ ९७३ ॥ प्रतीचा गोपुरेणाथ प्रविश्यास्थुर्मरुद्दिशि । विधिना भवनाधीशज्योतिष्कव्यन्तरास्तथा ।। ९७४ ।। अल्पर्द्धिः प्रथमायातस्तत्रायान्तं महर्द्धिकम् । प्रणनामागतं त्वग्रे नमन्नेव ययौ च सः ॥ ९७५ ॥ गोपुरेणोत्तरेणोच्चैः प्रविष्टास्तद्विधिक्रमात् । कल्पामरा नरा नार्य ईशाने ककुभि स्थिताः ।। ९७६ ।। नासीभियन्त्रणा तत्र न च काचन दुःकथा | न भयं न च मात्सर्यमभून्मत्सरिणामपि ।। ९७७ ॥ द्वितीयस्य तु वत्रस्य मध्ये सिंहगजादयः । तिर्यञ्च स्युमियःस्पर्शसुखस्यास्त्यक्तमत्सराः ॥ ९७८ ॥ संघट्टादण्यभग्नानि रौप्यमान्तरे पुनः । सुरासुरनरेशानां वाहनान्यत्रतस्थिरे ।। ९७९ ॥ दिशशोभां पुरे राजा जयापद्मावतीवृतः । तत्रागत्योत्सवैर्नाथं नत्वास्थाद्विधिवत्तदा ॥ ९८० ॥ स्वपुत्रैश्वर्यमालोक्य त्रिलोक्या स्तूयमानयोः । यः पित्रोः प्रमदो जज्ञे तत्पुरलुकोऽम्बुधिः ॥ ९८१ ॥ ये योजन सहस्रेऽपि जीवा मान्ति न मान्ति वा ममुः प्रभुप्रभावात्ते पीठे तत्रैकयोजने ॥ ९८२ ॥ निवार्य भक्तिवर्योऽथ सर्व कोलाहलं तदा । ३३८
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy