SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ [स.३.९६०-९७१] वासुपूज्याचरितम् कृत्यं यदन्यदप्यत्र दिव्यं तद्यन्तरामराः । सर्व वितेनिरे स्वामिभक्त्यजाततमश्रमाः ॥ ९६० ॥ ततश्चतुर्विधामर्त्यकोटीनां कोटिभिर्वृतः । स्वामी समवमृत्यर्थं त्रैलोक्यकृपयाचलत् ॥ ९६१ ।। नवतत्त्वश्रियामास्यानीव विश्वपतेः पुरः।। सुरैः सुवर्णपमानि दिव्यान्यथ वितेनिरे ॥ ९६२ ॥ द्वयोर्द्वयोः पदन्यासं तेषु चक्रे चलन्विभुः। अन्यानि चालयामास सुरवर्गः पुरः पुरः ॥९६३ ॥ ततः समवमृत्युर्वी पूर्वद्वाराविशत्मभुः । द्यामिव घुमणिर्विश्वतमःसमुदयच्छिदे ॥ ९६५ ॥ ततः प्रदक्षिणीकृत्य चैत्यर्बु पूर्वदिग्मुखः। तीर्थाय नम इत्युक्त्वा भेजे सिंहासनं जिनः ॥ ९६५ ॥ रत्नसिंहासनस्थानि प्रतिरूपाण्यथ प्रभोः । अप्यन्यासु व्यधुस्त्रीणि व्यन्तरा दिक्षु तत्क्षणात् ॥९६६॥ अङ्गष्ठस्यापि नो रूपं ते विकतुं प्रभोः क्षमाः। प्रभुप्रभावादेवासीत्तद्रूपं तासु मूर्तिषु ॥ ९६७ ॥ सर्वद्वीपातेजांसि पिण्डयित्वेव निर्मितम् । उद्भावदुद्धभूवानुमौलि भामण्डलं विभोः ॥ ९६८ ।। जिनेशदेशनानादनासीरो विश्वपापभित् । पूरयन्मरुदध्वानमुच्चैर्दध्वान दुन्दुभिः ॥ ९६९ ॥ रत्नध्वजः पुरो भर्तुरुद्भभूव यदग्रतः। नृत्यन्पताकाहस्तेन धर्मः शैलूषतां दधौ ॥ ९७० ॥ पारद्वारागत्य वो ऽस्मिन्दत्त्वा तिस्रः प्रदक्षिणाः । नत्वा तीर्थ जिनं चाग्निदिश्याचारविदो मुदा ॥ ९७१ ।।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy