SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ _श्री वर्धमानसूरिविरचितं [स. ३.९४८ - ९५९] ज्योतिष्क पश्चिमद्वारि द्वारपालौ बभूवतुः । आरक्तवर्णौ सुकृताकृष्टिध्यानवशादिव ।। ९४८ ॥ वप्रलक्ष्म्या मुख इवोत्तरद्वारि सितेतरौ । भवनाधिपती द्वाःस्थौ स्थितावलकवल्लिवत् ॥ ९४९ ॥ अभयं पाशिनं दिव्याङ्कुशं मुद्गरिणं क्रमात् । सर्वा दधत्यचन्द्राब्जकनका ञ्जनकान्तयः ।। ९५० ।। देव्यो जया व विजया चाजिता चापराजिता । प्राक्क्रमेण स्थिताः स्वर्णमाकारद्वारभूमिषु ॥९५१ ॥ युग्मम् ।। रौप्यवमे प्रतिद्वारं तुम्बरुःस्थतां दधौ । जटाकिरीटः खट्वाङ्गी नृशिरः स्रगलंकृतः ॥ ९५२ ॥ मध्ये समवसृत्याश्च व्यन्तराश्चैत्यपादपम् । व्यधुः श्रीद्वादशाधीशाङ्गद्वादशगुणोच्छ्रयम् ॥ ९५३ ॥ तदधो विदधुः पीठं नानामणिगणेन ते । यशुभिरशोको भूत्केकिपत्रातपत्रवत् ।। ९५४ ॥ तस्योपरि पराभूतसर्वामरविमानरुक् । छन्दकं मणिवृन्देन मन्दितार्केण ते ऽसृजन् ।। ९५५ ।। तन्मध्ये प्राङ्मुखं सांघ्रिपीठं सिंहासनं व्यधुः । नैस्ते समवसृतिश्रियो ऽस्या जीवितव्यवत् ॥ ९५६ ॥ ३३६ नुस्तदुपरि च्छत्रत्रयं ते चन्द्रसुन्दरम् । ज्ञानदर्शनचारित्रप्रभुताभावनं प्रभोः ।। ९५७ । यक्षाभ्यां चामरौ तत्र दधाते स्वामिनो मुखम् । सेवितुं प्रहितौ चन्द्रद्वयेनांशुचयाविव ॥ ९५८ ॥ द्वारे समवसारस्य स्वर्णाब्जस्थमथाभवत् । श्रीधर्मचक्रिता सूचि धर्मचक्रं प्रभाद्भुतम् ॥ ९५९ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy