________________
.
[स.३.९१२-९२३] वासुपूज्यचरितम् ३३३
कीर्तिप॑तिमतीवास्य वपुःसामर्थ्यसंभवाः ।। ९१२ ॥ अष्टाष्ट जलजन्मानि वाप्यां वाप्यां विरेजिरे। .. विकासीन्यष्टदिकान्तावदनप्रतिबिम्बवत् ॥ ९१३ ॥ कमले कमले ऽष्टाष्ट दलानि दधिरे युतिम् । . . अत्युत्सृतानि तीर्थेशविलोककुतुकादिव ॥ ९१४ ॥ चतुर्धाभिनयस्मेररसपसरलीलया। शुभान्यभूवनष्टाष्ट नाटकानि दले दले ॥ ९१५ ॥ प्रभुभक्तिभरव्यक्तीभूतस्वस्वगुणान्यथ । नाटके नाटके पात्राण्यत्र द्वात्रिंशदस्फुरन् ॥ ९१६ ॥ इति चित्रीयमाणश्रीशालिनं गुणमालिनम् । करोत्पातेन कुर्वन्तमाकाश इव जाह्नवीम् ॥ ९१७ ॥ सुरभिश्वासदेवद्रुकुसुमस्रग्मदाम्बुभिः । . त्रिधा संपीणितै डेंगीतकीर्तिमिवामितः ॥ ९१८ ॥ जगत्स्वामिनमस्कारमनोरथमिवोन्नतम् । आरोहद्वारणं वेगात्तं हरिः सपरिच्छदः ॥ ९१९ ॥
त्रिभिर्विशेषकम् ।। स्कन्धबद्धासने जिष्णौ ससिन्धुरसुरस्ततः । स्वामिसेवोत्सुकमनास्त्वराकृष्ट इवाचलत् ॥ ९२० ॥ प्रापालक इवात्मानं संक्षिपन्स क्षणादपि । जगाम स्वामिपादाब्जपूतमुद्यानभूतलम् ॥ ९२१ ॥ उत्ततार ततस्तारसारालंकारवारभृत् । सौधर्मस्वाम्यसौ धर्मस्वामिनं नन्तुमुद्यतः ॥ ९२२ ॥ अहंप्रथमिकाध्यानवर्धमानतरत्वराः।--... . अन्ये ऽपीन्द्राः समं देवैरीयुस्तत्राच्युतादयः ॥ ९२३ ॥