________________
-३३२ श्रीवर्धमानमरिविरचितं [स.३.९००-९११] www.wwwwwwwwwwwww
mar ~~~~~~~~~ मोहान्तिमक्षणे क्षीणे द्वितीयं प्रत्यपयत ॥ ९०० ॥ पञ्चज्ञानातीरीशश्चतस्त्रो दर्शनाटतीः । अन्तरायांश्च पश्चेति घातिकर्माण्यनाशयत् ॥ ९०१ ॥ माघे सितद्वितीयायां चन्द्रे शतभिषग्युजि । केवलज्ञानमुदभूद्विश्वोद्भासि प्रभोस्ततः ॥ ९०३ ॥ प्रसत्तिं हरितो भेजुर्वायवः सुखदा ववुः । क्षणं तदा सुखं प्रापुर्दुःप्रापं नारका अपि ॥९०३ ।। चकम्पिरे सुरेन्द्राणामासनान्यथ सर्वतः । शिरांसीव विमानानां विभुवैभववीक्षणात् ॥ ९०४॥ . एतैत यात यातेशं नन्तुमित्यादिशनिव । स्वर्लोकानिन्द्रलोकेषु महावष्टाः स्कुटस्वनः ॥ ९०५ ॥ सुधर्मशस्य तीर्थसं नन्तुमागन्तुमिच्छतः । ऐरावणसुरः स्मृत्या? करीभूय पुरो ऽभवत् ॥ ९८६॥ लक्षयोजनमानाङ्गः शुभश्रीरभ्रमूविभुः । रौप्याद्रिरिव हेमाद्रिस्पर्धया तुगतां गतः ।। ९०७॥ - जिनं यियासोस्तस्योचैर्मदधारायुगच्छलात् । पापं निकाचितं चानिकाचितं च गलद्धभौ ॥ ९०८ ॥ गर्जितैश्च महाघण्टाटणत्कारयुगैश्च सः । व्यराजत जिनं नन्तुं त्रिलोकीमाह्वयन्निव ॥ ९०९ ॥ स्वर्णपट्टाढयमालानि तस्याष्टौ वदनान्यभान् । प्रभुवाश्रवणोत्कण्ठाः प्रत्यक्षा इव धीगुणाः ॥.९१० ॥ वदने वदने चाष्टौ दशनास्तस्य रेजिरे । चतुःषष्टिकलाश्रीणां केलितल्पतला इव ॥९११ ॥ दशने दशने वापी स्वादुस्वच्छहिमोदका ।