________________
३० श्रीवर्धमानसूरिविरचितं [स.३.८७७-८८८]
स्नेहाजयश्रिया कर्णकुण्डलेनेव केशवः ।। नाभ्यां हृदि हतस्तेन चक्रेण मुखमूर्छितः ॥ ८७७॥ अतिज्वलयतेवाच तत्यतापहुताशनम् । वोजितो व्यजनीकृत्य वासो ऽन्तं विजयेन सः ॥८७८॥ तदेव चक्रमुङ्क्रम्य मूर्छान्ते तं हरिजंगौ । मुशाग्रभागं मुञ्चामि जीवन्तं मुंश्व भो भुवम् ॥ ८७९ ॥ क्रुधा रक्तभ्रमच्चक्षुस्तारकस्तारकस्ततः ।. ऊचे तं दन्तपेषोत्यस्फुलिङ्गावलिनी गिरम् ।। ८८०॥ अरे रे मुश्च मुश्च द्राग्ममैवेदमनेन हि । हस्तात्तेन पुनर्यनान्मुक्तेन त्वच्छिरो हरे ।। ८८१ ।। इति वाचार्दितः शाम चक्रमुद्दम्य मूर्धनि । द्रागमुश्चत तच्छिन्नमपश्यच्च द्विपच्छिरः॥ ८८२ ॥ चिरं प्रतिहरिः प्रीतः संभुज्य विजयश्रियम् ।। मुष्वाप वीरशय्यायां यशश्वीरावगुण्ठनः ॥ ८८३ ॥ स्वताप्रशत्रुसंहारसंघोतैरिव तारकैः । पुप्पटष्टिश्रियागामि विष्णुं सेवितुमम्वरात् ॥ ८८४ ॥ जिगाव गायनोद्गीतगुणग्रामो रणं हरिः । स केन जीयतां यस्यानुयायी विजयः स्वयम् ।। ८८५ ।। चक्रं च राजचक्रं च तारकस्य तदद्भुतम् । लग्नं हस्ते च पादे च किं करोमीति शाङ्गिणः ॥ ८८६ ॥ भरतार्घजयारम्भससंरम्भहृदो हरेः । चक्रमेवाभवज्जेयदेशमार्गोपदेशकम् ॥ ८८७ ॥ दक्षिणं भरतार्थं स सार्ध सर्वैर्धराधवैः । तयैव यात्रया जैत्रः साधयामास माधवः ॥ ८८८ ॥