________________
[स.१.१६१-१७३] वासुपूज्यचरितम्
अयं करात्तकल्याणकलशः करिशेखरः । अभिषिञ्चति यं राज्ये स्थाप्यः कामं स मामके ॥१६२॥ इत्यादिश्य तदा मन्त्रिवृन्दं वृन्दारको नृणाम् । मुक्तिवीक्षाप्रतिभुवं दीक्षामादत्त संमदी ॥ १६३ ॥ युग्मम्।। ते ऽपि शुद्धधियो धीराः क्षीराब्धिस्फर्तिकीर्तयः । कति नाददिरे दीक्षां भवक्षोदविनोदिनीम् ।। १६४ ॥ जिनप्रवचनप्रौढप्रभावपृथुभावनः । अथातः सपरीवारो विज हार महामुनिः ॥ १६ ॥ मङ्गल्यकलशं तस्य करे न्यस्य करीशितुः । पवित्रा मन्त्रिणस्तत्र ततः प्राञ्जलयो जगुः ॥.१६६ ।। गजैकराज राजत्वं विराजयति यो गुणैः । तस्मै कस्मैचिदैश्वर्य वितीर्य विजयी भव ॥१६७ ॥ ततो मतङ्गजस्वामी चामीकरविभूषणः । मन्द्रगर्जितवाचालदिक्चक्रः प्रचचाल सः।। १६८॥ रान्राज्ञश्च राज्याय पुरो ऽसौ परिपातिनः । सदृशैव दृशा पश्यन्मार्गविघ्नानमन्यत ॥ १६९ ॥ सरलं तरलं गच्छन्मदागतिरिव द्विपः । स तस्थौ नगारामग्रामोवीष्वपि न कचित् ॥ १७ ॥ कानेन हन्त गन्तव्यमित्यन्तश्चिन्तयातुराः। तं मन्त्रिणो ऽन्वगुमन्त्रं प्रभावा इव साधितम् ।। १७१ ॥ रत्नार्थीव पुमानब्धिं पुंरत्नार्थी स वारणः । दुःप्रवेशं विवेशाथ दूरदेशाटकीपथम् ॥ १७२ ॥ सुप्तं तरुतले कंचिच्चीरच्छन्नशरीरकम् । तत्राभ्यपिञ्चदम्भोभिः कुम्भी कल्याणकुम्भः ॥१७३ ।।