________________
श्रीवर्धमानसूरिविरचितं [स. १. १५०-१६१]
वीतरागप्रभुर्देवो गुरुस्तत्त्वोपदेशकः । धर्मश्च करुणारम्यस्त्रयतित्त्वमिदं विदुः ।। १५० । तत्सत्त्वं यद्भवाम्भोधिः क्रममात्रेण लङ्घयते । मिथ्या सत्त्वं पुनः कर्ममरिष्यन्मार्यमारणम् ।। १५१ ।। रिपवो रागरोषाद्या मुहुर्देहं दहन्ति ये । मूलादुन्मूलनीयास्ते समत्वास्त्रेण धीधनैः ।। १५२ ॥ मित्राणि प्राणिवर्गस्तु यो द्विषन्नपि कर्महा । कामं क्षामयितव्यो ऽसौ क्रुधा दीप्तः शमामृतैः ॥ १५३ ।। कषायविषयाञ्शत्रून्परिपुष्यन्ति मित्रवत् ।
सुहृदो सुतःकृत्य निघ्नन्ति धिग्जडाः ।। १५४ ॥ राजन्को ऽप्यवधिज्ञानी तव पूर्वसुहत्करी ।
सूक्तमानया ददौ शिक्षां भुक्तराज्यस्य संयमे ।। १५५ ।। इति विज्ञाय सूक्तार्थ चमत्कुर्वन्गुरोर्गिरा । मेदिनीजानिरानन्दहृष्टरोमपदो ऽवदत् ।। १५६ ॥ अद्य मे फलवज्जन्म यद्भवान्भवपारदः । अलभ्यत गुरुगौरगुणगौरव भाजनम् ।। १५७ ।। त्वत्प्रसादेन संसारसारासारविचारवित् । जाने sgनानाम्भोगान्योंग / नुरक्तधीः || १५८ ॥ प्रभो पीयूषसदृशा दृशा मां वीक्ष्य दीक्षय । विलीयन्त भवोत्थाना देहदाहज्वरोर्मयः ।। १५९ ॥ इत्युदीर्य पदद्वन्द्वमद्वन्द्वस्थिरमानसः । आनन्दचन्द्रसूररीणामग्रहादाग्रही नृपः ॥ १६० ॥ श्लोकार्थज्ञानसं विप्राः परेऽपि बहवो जनाः । दक्षा दीक्षामयाचन्त मुनिमानम्य तं तदा ।। १६१ ॥
१४