________________
[ स. १.१३८ - १४९] वासुपूज्यचरितम्
लोकेनानेन कनकाचलेनेव प्रकम्पनाः । सर्वज्ञमानिनः सर्वे गर्वेण रहिताः कृताः ।। १३८ ॥ अद्यापि विद्यते वापि को ऽपि प्रष्टव्यतास्पदम् । न वेति वदति क्ष्मा सचिवेन्दुरवोचत ।। १३९ ॥ अद्याप्येको विवेकोर्मिसमुद्रो न समेति सः । आनन्दचन्द्रसूरीन्द्रो जिनशासनतत्त्ववित् ।। १४० ॥ ऊचे ऽथ राज्ञा नाज्ञायि यदन्यैस्तत्कथं नु सः । तथाप्याहूयतां सोऽपि दीर्णशल्यो ऽस्तु संशयः ।। १४१ ॥ अथ मन्त्री स्वयं गत्वा नत्वा विनयवामनः । निवेद्य कार्यमाचार्यवर्य मावर्ज्य हूतवान् ।। १४२ ॥ ते कर्तुकामास्तीर्थेश शासनस्य प्रभावनाम् । राजमन्दिरमाजग्मुः सूरयो ऽथ नयोज्ज्वलाः ।। १४३ ॥ मूर्त शममिवायान्तं तमवेक्ष्य महामुनिम् । भून्यस्तदशनो हस्ती नमथके मुदा नदन् ।। १४४ ॥ देवांशः कोsप्यसौ कुम्भी मोहशुम्भी ननाम यम् । तं किं मुनीन्द्रं निस्तन्द्रा नमामो वयमप्यमुम् ॥ १४५ ।। इति ध्यायन्समुत्थाय भद्रपीठाद्विभुर्भुवः । नमश्कार सपरीवारः संसारतारणम् ॥ १४६ ॥ सूरिं सिंहासने sध्यास्य निविश्याग्रे ऽतिभक्तिभाक् । तं श्लोकं दर्शयभित्त्यामर्थं पप्रच्छ पार्थिवः ॥ १४७ ॥ दन्तच्छविच्छलान्मुक्तिशिलादीधितिवर्णिकाम् । दर्शयन्निव भक्तेभ्यो गुरुर्गिरमथाकिरत् ।। १४८ ॥ यो देवगुरुधर्माणां त्रयीं जानाति तत्त्वतः । रमते तन्मतिः सत्त्वे स मित्रामित्रभेदविद् ॥ १४९ ॥
२
१३