SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीवर्धमानसूरिविरचितं [स.३.८५३-८६४] तुल्यं हक्का प्रहारं च.दत्त्वा हक्काच्युतायुधे ।। द्विषि द्विखण्डिते को ऽपि स्वं जघानानुतापतः ॥८५३ ।। स्वाङ्गे प्रहारामिच्छन्तौ दृढं कौचिन्महाभटौ । क्रुधान्यतो ऽन्यतो यातौ दयामन्दप्रहारिणौ ॥ ८५४ ॥ प्रतिघातमकुर्वन्तो दत्तंघातेषु शत्रुषु । यश्यन्तः सदृशं वीरं चिरं के ऽप्पभ्रमन्भटाः ॥ ८५५ ॥ द्विषि प्रहारिण्यभ्याशादङ्गनाशं चकार यः । वीरास्तमप्यमन्यन्त कातरं जातरंहसः ॥ ८५६ ॥ अविभ्यत्सुभटेभ्यस्तच्छवं शस्त्रेण यो ऽच्छिनत् । मृत्युभीतो न वीरेषु सो ऽपि रेखामवाप्तवान् ।। ८५७ ।। एवं तरन्तो युद्धाब्धिं दोामेवोभये भटाः । सकौतुकमलोक्यन्त दृग्जयेन जयश्रिया ॥ ८५८ ।। आरुह्याथ रथं तल्पमिवाभीष्टं जयश्रियः । तत्कण्ठमिव वैकुण्ठः पाञ्चजन्यं मुदाग्रहीत् ॥ ८५९ ।। अस्वाधिदैवतान्यस्त्रशय्यामुप्तानि सत्वरम् । शौरिर्जागरयामास पाञ्चजन्यं प्रणादयन् ॥ ८६० ॥ तेन शङ्खस्य घोषेण सैन्यानि प्रतिशांर्मिणः। तृणानि पवनेनेवोड्डाययामासिरे ऽग्रतः ॥ ८६१ ॥ संक्रुद्धस्तद्धवनेरब्दशब्दादिव मृगाधिपः । शैलशृङ्गमिवारोहद्रथं प्रतिरथाङ्गभृत् ॥ ८६२ ॥ जयलक्ष्मीहठाकृष्टिसिद्धमन्त्राक्षरैरिव । सैन्यानि चापटङ्कारैः स्थिरयन्स हरिं ययौ ॥ ८६३ ॥ क्रुद्धौ दृग्युद्धवाग्युद्धपूर्व सर्वायुधैः क्रमात् । परस्परेण संरब्धौ प्रारब्धौ योद्धमेव तौ ॥ ८६४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy