SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [स.३. ८४१-८५२] वासुपूज्यचरितम् ततः पारापतद्यूतकारा इव घनत्वराः । उभये ऽप्यमिलवीरा व ुर्नीरागचेतसः ।। ८४१ ॥ असयो ऽन्तर्वसद्भर्तुमतापज्वलना इव । परस्पराभिपातेन स्फुलिङ्गान्मुमुचुर्मुहुः ॥ ८४२ ॥ द्विषत्तेजोग्निमेघेषु गजेषु मदवर्षिषु । ३२७ खद्योतकल्पैरद्योति स्फुलिङ्गैर्दन्तघातजैः ॥ ८४३ ॥ सायकाः शाकिनीमन्त्रा इव स्यन्दनशालिनाम् । अदृष्टा एव वध्याङ्गमविष्टा रुधिरं पपुः ।। ८४४ ॥ वाहवद्भिर्मणिश्रेणिसन्नाहद्युतिवेणिभिः । नाबोधि रुधिरं निर्यत्तादृशल्यप्रहारजम् ।। ८४५ ॥ सन्नाहशस्त्रदण्डास्थिखण्डानां त्रुटतां स्वनैः । नतां घोषैश्च घोरो ऽभून्मृत्योरपि भिये क्षणः ॥ ८४६ ॥ प्रकम्पितासयो हस्ता मौलयः सिंहनादिनः । अमर्षिणां द्विषत्खङ्गोत्क्षिप्ताः खे ऽत्रासयन्सुरान् ॥ ८४७॥ युध्यमानमहावीरः क्षीणवीरगणः क्षणम् । व्यक्तो ऽजनि रणः कामं कालकान्तादृगुत्सवः ॥ ८४८ ॥ क्षीणात्रो बाहुमेव स्वमस्त्रीकृत्य द्विषक्षतम् । चक्रे कश्वन पीठाब्जमागताया जयश्रियः ॥ ८४९ ॥ छिन्नायुधभुजामौलिः कश्चिदुत्पत्य कोपतः । ऊरुसंदंशबन्धेन द्विषमाशु व्यसुं व्यधात् ।। ८५० ॥ कोऽप्यभ्युत्थापयन्नङ्गान्याजिकण्डूभरच्छिदे | महारान्दृढयामास रिपोर्मन्दप्रहारिणः ।। ८५१ ॥ हकपातेनैव निर्भये परवीरंगणे ऽपरः । अपूर्णयुद्धाभिप्रायो ऽभजत्मायोपवेशनम् ।। ८५२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy