________________
३२६
श्रीवर्धमानसूरिविरचितं [स. ३.८२९-८४०]
माय स्थिते हरौ क्रोष्टा भरतार्थपतिः क्व सः । मच्छ तच्छिरसा सार्धं रत्नान्यादातुमेम्यहम् ॥ ८२९ ॥ इत्युक्त्वा विष्णुनोत्खात इव शिखयासनात् । स गत्वाशु चरः सर्वं स्वभर्त्रे तथ्यमभ्यधात् ।। ८३० ॥ क्रोधक्रौर्यत्रसत्कालस्तत्कालमथ तारकः ।
रिपुप्राणप्रयाणाय प्रयाणकमकारयत् ।। ८३१ ॥ जिताम्भोधरसंभारभम्भारवनवश्रवात् ।
मनोमयूराः शूराणामखण्डं ताण्डवं व्यधुः || ८३२ ॥ अभूच्चतुर्भिः पूर्दारैश्चतुरङ्गचमूद्रमः । चतुर्विधायुधोदा मचतुर्भुजजयेच्छया ।। ८३३ ॥ मिलद्भिर्मन्त्रिधात्रीशदेशाधीशादिसैनिकैः ।
चमूट यान्ती नदी नयन्तरैरिव ।। ८३४ ॥ प्रयाणैरवपाणैश्च सावेशः प्रतिकेशवः । द्रागलङ्घिष्ट मार्गार्धमलङ्घितपराक्रमः ।। ८३५ । इतश्च तादृगुत्साहसाहसा भोगभूषितः । हरिरप्येत्य मार्गां रुद्धवान्मार्गमग्रतः ।। ८३६ ॥ ततः प्रततसंग्रामगुणग्रामग्रहोन्मुखाः ।
तमुखां वार्ती प्रतेनुरुभये भटाः ।। ८३७ ॥ एकैक जन्तु ग्रासनातृसमालस्यशायिनम् ।
जागरयामासुर्युद्धर्यस्वना घनाः ।। ८३८ ॥ देहैः प्रहतिसस्नेहै रोमाञ्चच्छ्रासवारितान् । सन्नाहाञ्जगृहुः कष्टं भटाः स्वामिजयेच्छ्या ॥ ८३९ ॥ इष्टो ऽत्र मृत्युरागच्छन्परिरब्धुं चिरेप्सितः | पराङ्मुखो भून्मे मेति नागृह्णन्के ऽपि कञ्जकान् ॥ ८४०॥