________________
स.३. ८१७-८२८] वासुपूज्यचरितम्
३२५ न चाटुवचनैर्नाग्रेलुण्ठनै घिसेवनैः । न चाननतृणादानस्ते मोक्तव्याः कथंचन ॥ ८१७ ॥ अधुनवाधिकोत्साहैवाहैः सन्जय मे रथम् । मास्तु कालविलम्बस्ते भम्भां संभावय द्रुतम् ॥ ८१८ ॥ अथामात्यपतिर्भूपमजल्पनयकल्पवित् । देव सेवक एवाद्य यावदस्ति स ते नृपः ॥ ८१९ ।। निर्देशवर्तिनं चैनं मानयोग्यं निगृह्णतः। परिवारे ऽपि पुंनाग विरागस्ते भविष्यति ॥ ८२० ।। तदुत्पादयितुं दोष दूतस्तं प्रति युज्यताम् । मृत्युरप्यङ्गिनं हन्ति नान्नदोषादिना विना ॥ ८२१ ॥ दूतेनाश्वेभरनानि याच्यो ऽसौ चेन दास्यति । तदोषी दोषवान्सर्वो विभौ हि च्छलवीक्षके ॥ ८२२ ॥ राज्ञाथ तगिरि प्रीतिं वहता प्रहितश्वरः। 'पार्श्वस्थितमुतद्वन्द्वं ब्रह्माणं स्माह संसदि ॥ ८२३ ॥ भूप त्वां तारको वक्ति भक्तिमान्सेवको ऽसि मे। . तत्पाल्यो ऽसि ममैव त्वं किं ते हस्तिहयादिना ॥८२४॥ यच्छ तत्सर्वमस्मभ्यं यन्न लभ्यं तवास्ति यत् । यद्वस्तु भरतार्धे स्याद्भरतार्धपतेहि तत् ॥ ८२५ ॥ जल्पन्तमित्यमुं कोपस्वल्पकल्पान्तपावकः । दूतं भूतन्तुतेजोभिर्वघ्ननिव जगौ हरिः ॥ ८२६ ॥ कुलक्रमागते राज्ये वयं स्मः स च विद्यते । स चेन सेवको ऽस्माकं तत्कि तत्सेवका क्यम् ॥८२७॥ सो ऽस्माकं पालको भूत्वा मूढो रत्नानि याचते । यदा प्रत्युत याचिष्ये कस्तं पालयिता तदा ॥ ८२८ ॥ ,