SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ vvvvvar ३२४ श्रीवर्षमानमूरिविरचितं [स३.८०५-८१६] अवर्धत स धात्रीभिः पुष्यमाणो यथाक्रमम् । नमस्क्रियाभिधर्मो वा पश्चभिः परमेष्ठिनाम् ॥ ८०५ ।। मध्ये दशानां धात्रीणां तौ क्रीडन्तौ विरेजतुः। दिशामिव निशाधीशदिनाधीशौ वरोदयौ ॥ ८०६॥ नीलपीताम्बरौ तालशङ्खाडौ तौ सितासितौ । धरित्रीजननेत्राणां मुदं चित्रेण चक्रतुः ॥ ८०७ ॥ दोभूषणं शस्त्रकलाः शास्त्राणि मुखभूषणम् । जगृहाते गुरुभ्यस्तौ मञ्जूषाभ्य इव स्वयम् ॥ ८०८ ॥ एकपात्रदशायुग्मदीप्तौ दीपाविवोज्ज्वलौ । तौ दुःखसुखयोस्तुल्यौ तुल्यस्नेही विलेसतुः ॥ ८०९ ।। तौ शस्त्रतो ऽधिकं शश्वत्क्रीडयैवार्धचक्रिणः । अशस्त्रमाज्ञाभङ्गाख्यं वचं वध्यस्य चक्रतुः ॥ ८१० ॥ परिज्ञाय तयोर्दूरादाज्ञातिक्रमविक्रमौ । स्पशो गत्वा त्वरातारस्तारकं प्रत्यदो ऽवदत् ॥ ८११ ॥ देव त्वत्सेवकस्यापि दारको द्वारिकापतेः। आज्ञा तब न मन्यते धु रश्मिमिवोद्धतौ ।। ८१२ ॥ गतः स कालस्तेजो ऽस्तु तारकस्य क संप्रति । शूरौ यदुदितावेतावित्याहुः सेवकास्तयोः ॥ ८१३ ॥ अखर्वदोर्बलौ सर्वशस्त्रज्ञौ गर्वपर्वतौ । त्वां प्रति प्रतिभातस्तौ न शुभौ शोभनं कुरु ॥ ८१४ ॥ इति श्रुत्वोद्धतक्रोधो ऽयमबोधोद्धरस्वरः । ऊचे ऽर्धचक्री सेनान्यं सेनान्यश्चितसागरः ॥ ८१५ ।। सपुत्रद्वारिकाधीशवधप्रधनसंधया । प्रपञ्चय चमूवीचीींचीकृतकुलाचलाः ॥ ८१६ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy