SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [स. ३. ७९३-८०४] वासुपूज्यचरितम् ताभ्यां नरेन्दुः कान्ताभ्यां शुशुभे मुमुदे च सः । रजनीश इव ज्योत्स्नारजनीभ्यां कलोज्ज्वलः ।। ७९३ ।। इतश्चोत्तरतयुत्वा सुभद्रागर्भमासदत् । जीवः पवनवेगस्य शृङ्गासिहो गुहामिव ।। ७९४ ॥ द्विपसिंहवृषादित्या इति स्वमचतुष्टयम् । सुभद्रासौ तदाद्राक्षीद्रामजन्माभिसूचकम् ।। ७९५ ॥ सूते स्म समये सूनुमियमिन्दुसमद्युतिम् । शुक्तिर्मुक्त कणमिव क्षितिभूषणतां गतम् ।। ७९६ ॥ कारामुक्तत्यादिभिर्व्यक्तं द्विषामपि ददन्मुदम् । ३२३ ब्रह्मा विजय इत्यस्य सुतस्य विदधे ऽभिधाम् ॥ ७९७ ॥ इन्द्रियीभिरात्मेव पृथक्मथितकर्मभिः । धात्रीभिः पञ्चभिर्लाल्यमानो ऽयं वटधे श्रिया ।। ७९८ ।। वर्धमानः क्रमादेष स्मितैः कुसुमयन्दिशः । वसन्तदिवसव्यूह इव कस्य न तुष्टये ॥ ७९९ ॥ अथोदरमुमादेव्याः प्राणतात्पर्वत युतः । अवाप पुण्यकृन्मुष्टिं चिन्तामणिरिवार्णवात् ।। ८०० ॥ करी सिंहो वृषचन्द्रो भानुर्वैश्वानरो ऽम्बुधिः । इति स्वानुमापश्यदच्युतोत्पत्तिसूचकान् ।। ८०१ ।। ततः सुतमसौ बालतमालदलदीधितिम् । विन्ध्यभूरिव भद्रेभं समये समजीजनत् ॥ ८०२ ॥ सुतोत्पत्तिं कथयतां दानमानन्दितो ददत | रचयामास न ब्रह्मा भेदमाद्यान्तयोरपि ।। ८०३ ॥ नित्योत्सवानपि सुरानुत्सवेनापि लोभयन् । सुनोद्विपृष्ट इत्याख्यां सत्यामदित भूपतिः ।। ८०४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy