SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ . . . . ३२२ श्रीवर्धमानमरिविरचितं [स.३.७८१-७९रा. जगृहेऽ थ महाकुम्भिकुम्भकान्तकुचोज्ज्वला । तस्य श्रीरिव सा विन्ध्यशक्तिना गुणमञ्जरी ॥७८१ ॥ सर्वतः पर्वतः सोऽथ गर्वतः प्रच्युतः कृती। भेजे संभवमूरिभ्यो भवसौरभ्यमुव्रतम् ॥ ॥ ७८२ ॥ विन्ध्यशक्तिवघे शक्तिभवतान्मे भवान्तरे । इंडग्निदानध्यानेन तेन तैनातुलं तपः ॥ ७८३ ॥ एवं तपः स विक्रीय तः कामगवीमिव । गृहीत्वानशनं मृत्वा प्रपेदे प्राणतं दिवम् ॥ ७८४ ॥ विन्ध्यशक्तिरपि भ्राम्यन्भवाञ्जन्मनि कुत्रचित् । जिनलिङ्गधरो मृत्वा कल्पसन्दारको ऽभवत् ॥ ७८५ ॥ च्युत्वा च श्रीमतीकुक्षिजन्मा श्रीधरभूपभूः । पुरे ऽभूद्विजयपुरे कुमारस्तारकाभिधः ॥ ७८६ ।। स सप्ततिधनुमात्रगात्रः पात्रं मपीत्विषाम् । द्विसप्तत्यष्टलक्षायुरभूदक्षामपौरुषः ॥ ७८७ ॥ अन्ते पितुः प्रतापश्रीताडाचक्रमाप्य सः । प्रत्यर्धचक्री भूचक्रखण्उत्रयमसाधयत् ॥ ७८८ ॥ इतश्चास्ति चतुर्वर्गश्रीनिरगलनागरा । मध्यब्धि स्वर्गसौभाग्यकारिका द्वारिका पुरी ॥ ७८९ ॥ या परैरपराभूता सुराष्ट्रमुखमण्डनम् । पश्चिमाम्भोधिनीरेभनराश्वैरेव वेष्टयते ॥ ७९० ॥ अगोचरचरित्रश्रीब्रह्मविद्वचसामपि । ब्रह्मचारी परस्त्रीषु ब्रह्माभूदिह भूपतिः ॥ ७९१ ॥ तस्याभूतां शुभे कान्तें सुभद्रामै शुभद्युती। . धारे इव कृपाणस्य सतीव्रतगुणश्रिते ॥ ७९२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy