________________
[स.३.७६९-७८०] वासुपूज्यचरितम्
३२१ चिरेप्सितायां समरश्रियि संजातसंगतौ । अदर्शि क्षतजं वीरैश्विरसंचितरागवत् ॥ ७६९ ॥ शरीरैवीरवाराणामभ्युत्पत्य मुहुर्मुहुः । महाराणां गणः काममापतत्कवलीकृतः ॥ ७७० ॥ अन्येष्वपि द्विषद्वारमहारान्परिपातिनः। स्वस्मिन्नेव भटा ऐच्छल्लुब्धा इव धनोच्चयान् ॥ ७७१ ॥ अपमृत्यापमृत्याशु प्रधावद्भिर्विरोधिषु । वीरैर्जयश्रियो ऽपूरि दोलाकेलिकुतूहलम् ॥ ७७२ ॥ तुल्य एव प्रबलयोरित्यभूदलयोर्जयः । बाह्वोर्बाहुधनस्येव मिथः संधृत्य कर्षतोः ॥७७३ ॥ गर्वात्सर्वाभिसारेण प्रतेने पर्वतस्ततः । उत्तिष्ठमानो मानोमिमुक्तमेवारिवारिधिम् ॥ ७७४ ॥ रेजे ऽखैः खण्डशः कुर्वन्वैरिवीरान्पशूनिव । तेजोनिं ज्वालयन्काला स्वयंपाकव्रतीव सः ॥ ७७५ ॥ कुर्वन्संकीर्णकीनाशवदनं कदनं द्विषाम् । अधाक्त ततः क्रुद्धो युद्धोयो विन्ध्यराडपि ॥ ७७६ ॥ मिथः प्रमथिताशेषबलौ प्रबलदोर्बलौ । तर्जयन्तौ भूवैवैतौ गर्जन्तावभिजग्मतुः ॥ ७७७ ॥ रथसारथिरथ्यानां मिथो मन्थममन्थरम् । प्रथयित्वा स्थितौ पृथ्व्यां पृथू पृथ्वीधरौ यथा ॥ ७७८॥ स्थान्तरपरिस्पन्दावमन्दानन्दविक्रमौ । युयुधाते क्रुधा तेजस्तेजयन्तौ जयाय तौ ॥ ७७२ ॥ युक्तं पर्वतको विन्ध्यशक्तिना युधि निर्जितः ।. चित्रं पलायमाना ऽपि स जिगाय प्रभञ्जनम् ॥ ७८०॥