________________
३२० श्रीवर्धमानसूरिविरचितं [स.३.७५७-७६८]
यस्ते वैरी समे वैरी यः सुहृन्मे स ते सुहृत् । या ते श्रीः सा ममापि श्रीर्या मे भूः स तवापि भूः ॥७५७॥ एवं सौहार्दसंबन्धभासमानकभावयोः । नैव श्रियि क्रियायां वा विभेदो भृशभावयोः ॥ ७५८ ।। भेदं यदि न देहे ऽपि धत्से तच्छे नुषीप्रिय । मह्यं प्रेषय वेगेन गणिकां गुणमञ्जरीम् ॥ ७५९ ॥ इत्यस्य वचसा दीप्तः पवनेनेव पावकः । ततान पर्वतस्तीवमक्षरालिं स्फुलिङ्गवत् ॥ ७६० ॥ साधु सख्यं चिरादद्य दर्शितं विन्ध्यशक्तिना। याचितं जीवितव्यं मे यदसौ गुणमञ्जरी ॥ ७६१ ॥ स्वमुखेनैव यद्येतदभणिष्यत्स मे पुरः। अदास्यमुत्तरं तस्य स्वकृपाणाखेन तत् ।। ७६२ ॥ क्रोधाग्निर्वर्धमानो मे धक्ष्यति त्वामपि ध्रुवम् । तत्तूर्णं गच्छ मा यच्छ दूतदारणदुर्यशंः ॥ ७६३ ॥ इति कोपिनि भूपे ऽसौ वण्डैः कण्ठे धृतः पुमान् । अपमानासमधिकं गत्वाख्यविन्व्यशक्तये ॥ ७६४ ॥ तदैव दैवमप्याशु दुर्बलं गणयन्बलात् । चक्रे प्रयाणं राजासौ रजःसावयवाम्बरम् ॥ ७६५ ॥ पर्वतो ऽपि चमूचारचूर्णीभूताध्वपर्वतः । प्रतिप्रयाणमकरोद्धैर्याब्धिमकरो रयात् ।। ७६६ ॥ चलद्भिः केतुचीराप्रैस्तर्जयन्तौ मिथो ऽप्यथ । योद्धमुत्सङ्गितोत्साहौ तौ सैन्याब्धी समीयतुः॥७६७॥ अजातजयभङ्गानि क्षणं क्षोणिपयोस्तयोः । अश्वेभरथपत्तीनां द्वन्द्वयुद्धानि जज्ञिरे ॥ ७६८ ॥